Difference between revisions of "Adiparva Adhyaya 126 (आदिपर्वणि अध्यायः १२६)"

From Dharmawiki
Jump to: navigation, search
(slokas)
 
(No difference)

Latest revision as of 16:00, 11 July 2019

धृतराष्ट्र उवाच

पाण्डोर्विदुर सर्वाणि प्रेतकार्याणि कारय।

राजवद्राजसिंहस्य माद्र्याश्चैव विशेषतः॥ 1-126-1

पशून्वासांसि रत्नानि धनानि विविधानि च।

पाण्डोः प्रयच्छ माद्र्याश्च येभ्यो यावच्च वाञ्छितम्॥ 1-126-2

यथा च कुन्ती सत्कारं कुर्यान्माद्र्यास्तथा कुरु।

यथा न वायुर्नादित्यः पश्येतां तां सुसंवृताम्॥ 1-126-3

न शोच्यः पाण्डुरनघः प्रशस्यः स नराधिपः।

यस्य पञ्च सुता वीरा जाताः सुरसुतोपमाः॥ 1-126-4

वैशम्पायन उवाच

विदुरस्तं तथेत्युक्त्वा भीष्मेण सह भारत।

पाण्डुं संस्कारयामास देशे परमपूजिते॥ 1-126-5

ततस्तु नगरात्तूर्णमाज्यगन्धपुरस्कृताः।

निर[र्हृ]ताः पावका दीप्ताः पाण्डो राजन्पुरोहितैः॥ 1-126-6

अथैनामार्तवैः पुष्पैर्गन्धैश्च विविधैर्वरैः।

शिबिकां तामलङ्कृत्य वाससाऽऽच्छाद्य सर्वशः॥ 1-126-7

तां तथा शोभितां माल्यैर्वासोभिश्च महाधनैः।

अमात्या ज्ञातयश्चैनं सुहृदश्चोपतस्थिरे॥ 1-126-8

नृसिंहं नरयुक्तेन परमालङ्कृतेन तम्।

अवहन्यानमुख्येन सह माद्र्या सुसंयतम्॥ 1-126-9

पाण्डुरेणातपत्रेण चामरव्यजनेन च।

सर्ववादित्रनादैश्च समलञ्चक्रिरे ततः॥ 1-126-10

रत्नानि चाप्युपादाय बहूनि शतशो नराः।

प्रददुः काङ्क्षमाणेभ्यः पाण्डोस्तस्यौर्ध्वदेहिके॥ 1-126-11

अथच्छत्राणि शुभ्राणि चामराणि बृहन्ति च।

आजह्रुः कौरवस्यार्थे वासांसि रुचिराणि च॥ 1-126-12

याजकैः शुक्लवासोभिर्हूयमाना हुताशनाः।

अगच्छन्नग्रतस्तस्य दीप्यमानाः स्वलङ्कृताः॥ 1-126-13

ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्चैव सहस्रशः।

रुदन्तः शोकसन्तप्ता अनुजग्मुर्नराधिपम्॥ 1-126-14

अकाण्डे[अयम]स्मानपाहाय दुःखे चाधाय शाश्वते।

कृत्वा चास्माननाथांश्च क्व यास्यति नराधिप[पः]॥ 1-126-15

क्रोशन्तः पाण्डवाः सर्वे भीष्मो विदुर एव च।

बाह्लीकः सोमदत्तश्च तथा भूरिश्रवा नृपः॥

अन्योन्यं वै समाश्लिष्य अनुजग्मुस्सहस्रशः॥

रमणीये वनोद्देशे गङ्गातीरे समे शुभे॥ 1-126-16

न्यासयामासुरथ तां शिबिकां सत्यवादिनः।

सभार्यस्य नृसिंहस्य पाण्डोरक्लिष्टकर्मणः॥ 1-126-17

ततस्तस्य शरीरं तु सर्वगन्धाधिवासितम्।

शुचिकालीयकादिग्धं दिव्यचन्दनरूषितम्॥ 1-126-18

पर्यषिञ्चञ्जलेनाशु शातकुम्भमयैर्घटैः।

चन्दनेन च शुक्लेन सर्वतः समलेपयन्॥ 1-126-19

कालागुरुविमिश्रेण तथा तुङ्गरसेन च।

अथैनं देशजैः शुक्लैर्वासोभिः समयोजयन्॥ 1-126-20

सञ्छन्नः स तु वासोभिर्जीवन्निव नराधिपः।

शुशुभे स नरव्याघ्रो महार्हशयनोचितः॥ 1-126-21

(हयमेधाग्निना सर्वे याजकाः सपुरोहिताः।

वेदोक्तेन विधानेन क्रियाश्चक्रुः समन्त्रकम्॥)

याजकैरभ्यनुज्ञाते प्रेतकर्मण्यनुष्ठिते।

घृतावसिक्तं राजानं सह माद्र्या स्वलङ्कृतम्॥ 1-126-22

तुङ्गपद्मवि[क]मिश्रेण चन्दनेन सुगन्धिना।

अन्यैश्च विविधैर्गन्धैर्विधिना समदाहयन्॥ 1-126-23

घृताप्लुतैर्महावस्त्रैः प्रावारैश्च महाघनैः।

धृतपूर्णैस्तथा कुम्भै राजानं समदाहयन्॥

ततस्तयोः शरीरे द्वे दृष्ट्वा मोहवशं गता।

हा हा पुत्रेति कौसल्या पपात सहसा भुवि॥ 1-126-24

तां प्रेक्ष्य पतितामार्तां पौरजानपदो जनः।

रुरोद दुःखसन्तप्तो राजभक्त्या कृपान्वितः॥ 1-126-25

कुन्त्याश्चैवार्तनादेन सर्वाणि च विचुक्रुशुः।

मानुषैः सह भूतानि तिर्यग्योनिगतान्यपि॥ 1-126-26

तथा भीष्मः शान्तनवो विदुरश्च महामतिः।

सर्वशः कौरवाश्चैव प्राद्रवन्[प्राणदन्] भृशदुःखिताः॥ 1-126-27

ततो भीष्मोऽथ विदुरो राजा च सह पाण्डवैः।

उदकं चक्रिरे तस्य सर्वाश्च कुरुयोषितः॥ 1-126-28

चुक्रशुः पाण्डवाः सर्वे भीष्मः शान्तनवस्तथा।

विदुरो ज्ञातयश्चैव चक्रुश्चाप्युदकक्रियाः॥ 1-126-29

कृतोदकांस्तानादाय पाण्डवाञ्छोककर्शितान्।

सर्वाः प्रकृतयो राजन्शोचमाना न्यवारयन्॥ 1-126-30

यथैव पाण्डवा भूमौ सुषुपुः सह बान्धवैः।

तथैव नागरा राजन्शिश्यिरे ब्राह्मणादयः॥ 1-126-31

तद्गतानन्दमस्वस्थमाकुमारमहृष्टवत्।

बभूव पाण्डवैः सार्धं नगरं द्वादश क्षपाः॥ 1-126-32

इति श्रीमहाभारते आदिपर्वणि सम्भवपर्वणि पाण्डुदाहे षड्विंशत्यधिकशततमोऽध्यायः॥ 126॥