Adiparva Adhyaya 7 (आदिपर्वणि अध्यायः ७)
सौतिरुवाच
शप्तस्तु भृगुणा वह्निः क्रुद्धो वाक्यमथाब्रवीत्।
किमिदं साहसं ब्रह्मन्कृतवानसि मां प्रति॥ 1-7-1
धर्मे प्रयतमानस्य सत्यं च वदतः समम्।
पृष्टो यदब्रवं सत्यं व्यभिचारोऽत्र को मम॥ 1-7-2
पृष्टो हि साक्षी यः साक्ष्यं जानानोऽप्यन्यथावदेत्।
स पूर्वानात्मनः सप्त कुले हन्यात्तथा परान्॥ 1-7-3
यश्च कार्यार्थतत्त्वज्ञो जानानोऽपि न भाषते।
सोऽपि तेनैव पापेन लिप्यते नात्र संशयः॥ 1-7-4
शक्तोऽहमपि शप्तुं त्वां मान्यास्तु ब्राह्मणा मम।
जानतोऽपि च ते ब्रह्मन्कथयिष्ये निबोध तत्॥ 1-7-5
योगेन बहुधात्मानं कृत्वा तिष्ठामि मूर्तिषु।
अग्निहोत्रेषु सत्रेषु क्रियासु च मखेषु च॥ 1-7-6
वेदोक्तेन विधानेन मयि यद्धूयते हविः।
देवताः पितरश्चैव तेन तृप्ता भवन्ति वै॥ 1-7-7
आपो देवगणाः सर्वे आपः पितृगणास्तथा।
दर्शश्च पौर्णमासश्च देवानां पितृभिः सह॥ 1-7-8
देवताः पितरस्तस्मात्पितरश्चापि देवताः।
एकीभूताश्च दृश्यन्ते[पूज्यन्ते] पृथक्त्वेन च पर्वसु॥ 1-7-9
देवताः पितरश्चैव भुञ्जते मयि यद्धुतम्।
देवतानां पितॄणां च मुखमेतदहं स्मृतम्॥ 1-7-10
अमावास्यां हि पितरः पौर्णमास्यां हि देवताः।
मन्मुखेनैव हूयन्ते भुञ्जते च हुतं हविः॥ 1-7-11
सर्वभक्षः कथं त्वेषां भविष्यामि मुखं त्वहम्।
सौतिरुवाच
चिन्तयित्वा ततो वह्निश्चक्रे संहारमात्मनः॥ 1-7-12
द्विजानामग्निहोत्रेषु यज्ञसत्रक्रियासु च।
निरोंकारवषट्काराः स्वधास्वाहाविवर्जिताः॥ 1-7-13
विनाग्निना प्रजाः सर्वास्तत आसन्सुदुःखिताः।
अथर्षयः समुद्विग्ना देवान्गत्वाब्रुवन्वचः॥ 1-7-14
अग्निनाशात्क्रियाभ्रंशाद्भ्रान्ता लोकास्त्रयोऽनघाः।
विधद्ध्वमत्र यत्कार्यं न स्यात्कालात्ययो यथा॥ 1-7-15
अथर्षयश्च देवाश्च ब्रह्माणमुपगम्य तु।
अग्नेरावेदयञ्छापं क्रियासंहारमेव च॥ 1-7-16
भृगुणा वै महाभाग शप्तोऽग्निः कारणान्तरे।
कथं देवमुखो भूत्वा यज्ञभागाग्रभुक्तथा॥ 1-7-17
हुतभुक्सर्वलोकेषु सर्वभक्षत्वमेष्यति।
श्रुत्वा तु तद्वचस्तेषामग्निमाहूय विश्वकृत्॥ 1-7-18
उवाच वचनं श्लक्ष्णं भूतभावनमव्ययम्।
लोकानामिह सर्वेषां त्वं कर्ता चान्त एव च॥ 1-7-19
त्वं धारयसि लोकांस्त्रीन्क्रियाणां च प्रवर्तकः।
स तथा कुरु लोकेश नोच्छिद्येरन्यथा क्रियाः॥ 1-7-20
कस्मादेवं विमूढस्त्वमीश्वरः सन्हुताशन।
त्वं पवित्रं सदा लोके सर्वभूतगतिश्च ह॥ 1-7-21
न त्वं सर्वशरीरेण सर्वभक्षत्वमेष्यसि।
अपाने ह्यर्चिषो यास्ते सर्वं भोक्ष्यन्ति ताः शिखिन्॥ 1-7-22
क्रव्यादा च तनुर्या ते सा सर्वं भक्षयिष्यति।
यथा सूर्यांशुभिः स्पृष्टं सर्वं शुचि विभाव्यते॥ 1-7-23
तथा त्वदर्चिर्निर्दग्धं सर्वं शुचि भविष्यति।
त्वमग्ने परमं तेजः स्वप्रभावाद्विनिर्गतम्॥ 1-7-24
स्वतेजसैव तं शापं कुरु सत्यमृषेर्विभो।
देवानां चात्मनो भागं गृहाण त्वं मुखे हुतम्॥ 1-7-25
सौतिरुवाच
एवमस्त्विति तं वह्निः प्रत्युवाच पितामहम्।
जगाम शासनं कर्तुं देवस्य परमेष्ठिनः॥ 1-7-26
देवर्षयः च मुदितास्ततो जग्मुर्यथागतम्।
ऋषयश्च यथापूर्वं क्रियाः सर्वाः प्रचक्रिरे॥ 1-7-27
दिवि देवा मुमुदिरे भूतसङ्घाश्च लौकिकाः।
अग्निश्च परमां प्रीतिमवाप हतकल्मषः॥ 1-7-28
एवं स भगवाञ्छापं लेभेऽग्निर्भृगुतः पुरा।
एवमेष पुरावृत्त इतिहासोऽग्निशापजः।
पुलोम्नश्च विनाशोऽयं च्यवनस्य च सम्भवः॥ 1-7-29
इति श्रीमहाभारते आदिपर्वणि पौलोमपर्वणि अग्निशापमोचने सप्तमोऽध्यायः॥ 7 ॥