Adiparva Adhyaya 126 (आदिपर्वणि अध्यायः १२६)
Jump to navigation
Jump to search
धृतराष्ट्र उवाच पाण्डोर्विदुर सर्वाणि प्रेतकार्याणि कारय। राजवद्राजसिंहस्य माद्र्याश्चैव विशेषतः॥ 1-126-1 पशून्वासांसि रत्नानि धनानि विविधानि च। पाण्डोः प्रयच्छ माद्र्याश्च येभ्यो यावच्च वाञ्छितम्॥ 1-126-2 यथा च कुन्ती सत्कारं कुर्यान्माद्र्यास्तथा कुरु। यथा न वायुर्नादित्यः पश्येतां तां सुसंवृताम्॥ 1-126-3 न शोच्यः पाण्डुरनघः प्रशस्यः स नराधिपः। यस्य पञ्च सुता वीरा जाताः सुरसुतोपमाः॥ 1-126-4 वैशम्पायन उवाच विदुरस्तं तथेत्युक्त्वा भीष्मेण सह भारत। पाण्डुं संस्कारयामास देशे परमपूजिते॥ 1-126-5 ततस्तु नगरात्तूर्णमाज्यगन्धपुरस्कृताः। निर[र्हृ]ताः पावका दीप्ताः पाण्डो राजन्पुरोहितैः॥ 1-126-6 अथैनामार्तवैः पुष्पैर्गन्धैश्च विविधैर्वरैः। शिबिकां तामलङ्कृत्य वाससाऽऽच्छाद्य सर्वशः॥ 1-126-7 तां तथा शोभितां माल्यैर्वासोभिश्च महाधनैः। अमात्या ज्ञातयश्चैनं सुहृदश्चोपतस्थिरे॥ 1-126-8 नृसिंहं नरयुक्तेन परमालङ्कृतेन तम्। अवहन्यानमुख्येन सह माद्र्या सुसंयतम्॥ 1-126-9 पाण्डुरेणातपत्रेण चामरव्यजनेन च। सर्ववादित्रनादैश्च समलञ्चक्रिरे ततः॥ 1-126-10 रत्नानि चाप्युपादाय बहूनि शतशो नराः। प्रददुः काङ्क्षमाणेभ्यः पाण्डोस्तस्यौर्ध्वदेहिके॥ 1-126-11 अथच्छत्राणि शुभ्राणि चामराणि बृहन्ति च। आजह्रुः कौरवस्यार्थे वासांसि रुचिराणि च॥ 1-126-12 याजकैः शुक्लवासोभिर्हूयमाना हुताशनाः। अगच्छन्नग्रतस्तस्य दीप्यमानाः स्वलङ्कृताः॥ 1-126-13 ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्चैव सहस्रशः। रुदन्तः शोकसन्तप्ता अनुजग्मुर्नराधिपम्॥ 1-126-14 अकाण्डे[अयम]स्मानपाहाय दुःखे चाधाय शाश्वते। कृत्वा चास्माननाथांश्च क्व यास्यति नराधिप[पः]॥ 1-126-15 क्रोशन्तः पाण्डवाः सर्वे भीष्मो विदुर एव च। बाह्लीकः सोमदत्तश्च तथा भूरिश्रवा नृपः॥ अन्योन्यं वै समाश्लिष्य अनुजग्मुस्सहस्रशः॥ रमणीये वनोद्देशे गङ्गातीरे समे शुभे॥ 1-126-16 न्यासयामासुरथ तां शिबिकां सत्यवादिनः। सभार्यस्य नृसिंहस्य पाण्डोरक्लिष्टकर्मणः॥ 1-126-17 ततस्तस्य शरीरं तु सर्वगन्धाधिवासितम्। शुचिकालीयकादिग्धं दिव्यचन्दनरूषितम्॥ 1-126-18 पर्यषिञ्चञ्जलेनाशु शातकुम्भमयैर्घटैः। चन्दनेन च शुक्लेन सर्वतः समलेपयन्॥ 1-126-19 कालागुरुविमिश्रेण तथा तुङ्गरसेन च। अथैनं देशजैः शुक्लैर्वासोभिः समयोजयन्॥ 1-126-20 सञ्छन्नः स तु वासोभिर्जीवन्निव नराधिपः। शुशुभे स नरव्याघ्रो महार्हशयनोचितः॥ 1-126-21 (हयमेधाग्निना सर्वे याजकाः सपुरोहिताः। वेदोक्तेन विधानेन क्रियाश्चक्रुः समन्त्रकम्॥) याजकैरभ्यनुज्ञाते प्रेतकर्मण्यनुष्ठिते। घृतावसिक्तं राजानं सह माद्र्या स्वलङ्कृतम्॥ 1-126-22 तुङ्गपद्मवि[क]मिश्रेण चन्दनेन सुगन्धिना। अन्यैश्च विविधैर्गन्धैर्विधिना समदाहयन्॥ 1-126-23 घृताप्लुतैर्महावस्त्रैः प्रावारैश्च महाघनैः। धृतपूर्णैस्तथा कुम्भै राजानं समदाहयन्॥ ततस्तयोः शरीरे द्वे दृष्ट्वा मोहवशं गता। हा हा पुत्रेति कौसल्या पपात सहसा भुवि॥ 1-126-24 तां प्रेक्ष्य पतितामार्तां पौरजानपदो जनः। रुरोद दुःखसन्तप्तो राजभक्त्या कृपान्वितः॥ 1-126-25 कुन्त्याश्चैवार्तनादेन सर्वाणि च विचुक्रुशुः। मानुषैः सह भूतानि तिर्यग्योनिगतान्यपि॥ 1-126-26 तथा भीष्मः शान्तनवो विदुरश्च महामतिः। सर्वशः कौरवाश्चैव प्राद्रवन्[प्राणदन्] भृशदुःखिताः॥ 1-126-27 ततो भीष्मोऽथ विदुरो राजा च सह पाण्डवैः। उदकं चक्रिरे तस्य सर्वाश्च कुरुयोषितः॥ 1-126-28 चुक्रशुः पाण्डवाः सर्वे भीष्मः शान्तनवस्तथा। विदुरो ज्ञातयश्चैव चक्रुश्चाप्युदकक्रियाः॥ 1-126-29 कृतोदकांस्तानादाय पाण्डवाञ्छोककर्शितान्। सर्वाः प्रकृतयो राजन्शोचमाना न्यवारयन्॥ 1-126-30 यथैव पाण्डवा भूमौ सुषुपुः सह बान्धवैः। तथैव नागरा राजन्शिश्यिरे ब्राह्मणादयः॥ 1-126-31 तद्गतानन्दमस्वस्थमाकुमारमहृष्टवत्। बभूव पाण्डवैः सार्धं नगरं द्वादश क्षपाः॥ 1-126-32 इति श्रीमहाभारते आदिपर्वणि सम्भवपर्वणि पाण्डुदाहे षड्विंशत्यधिकशततमोऽध्यायः॥ 126॥ Pandu Madri Mortal remains last rites funeral Shraddhanjali homage tribute brothers and sisters पाण्डु माद्री अस्थियों दाहसंस्कार