Yajnavalkya Hotaasvala Samvada (याज्ञवल्क्य-होताश्वलयोः संवादः)
Brhdaranyaka Upanishad Adhyaya 3 Brahmana 1
ते ह ब्राह्मणाश्चुक्रुधुः कथं नु नो ब्रह्मिष्ठो ब्रुवीतेति । अथ ह जनकस्य वैदेहस्य होताश्वलो बभूव । स हैनं पप्रच्छ त्वं नु खलु नो याज्ञवल्क्य ब्रह्मिष्ठोऽसी३ इति । स होवाच नमो वयं ब्रह्मिष्ठाय कुर्मो गोकामा एव वयं स्म इति । तं ह तत एव प्रष्टुं दध्रे होताश्वलः ॥ बृह. ३,१.२ ॥
याज्ञवल्क्येति होवाच यदिदं सर्वं मृत्युनाप्तं सर्वं मृत्युनाभिपन्नं केन यजमानो मृत्योराप्तिमतिमुच्यत इति । होत्रर्त्विजाग्निना वाचा । वाग्वै यज्ञस्य होता । तद्येयं वाक्सोऽयमग्निः स होता सा मुक्तिः सातिमुक्तिः ॥ ३,१.३ ॥
याज्ञवल्क्येति होवाच यदिदं सर्वमहोरात्राभ्यामाप्तं सर्वमहोरात्राभ्यामभिपन्नं केन यजमानोऽहोरात्रयोराप्तिमतिमुच्यत इति । अध्वर्युणर्त्विजा चक्षुषादित्येन । चक्षुर्वै यज्ञस्याध्वर्युः । तद्यदिदं चक्षुः सोऽसावादित्यः । सोऽध्वर्युः सा मुक्तिः सातिमुक्तिः ॥ ३,१.४ ॥
याज्ञवल्क्येति होवाच यदिदं सर्वं पूर्वपक्षापरपक्षाभ्यामाप्तं सर्वं पूर्वपक्षापरपक्षाभ्यामभिपन्नं केन यजमानः पूर्वपक्षापरपक्षयोराप्तिमतिमुच्यत इति । उद्गात्रर्त्विजा वयुना प्राणेन । प्राणो वै यज्ञस्योद्गाता । तद्योऽयं प्राणः स वायुः स उद्गाता । स मुक्तिः सातिमुक्तिः ॥ बृह. ३,१.५ ॥
याज्ञवल्क्येति होवाच यदिदमन्तरिक्षमनारम्बणमिव केनाक्रमेण यजमानः स्वर्गं लोकमाक्रमत इति । ब्रह्मणर्त्विजा मनसा चन्द्रेण । मनो वै यज्ञस्य ब्रह्मा । तद्यदिदं मनः सोऽसौ चन्द्रः स ब्रह्मा स मुक्तिः सातिमुक्तिरित्यतिमोक्षा । अथ संपदः ॥ ३,१.६ ॥
याज्ञवल्क्येति होवाच कतिभिरयमद्यर्ग्भिर्होतास्मिन् यज्ञे करिष्यतीति । तिसृभिरिति । कतमास्तास्तिस्र इति । पुरोनुवाक्या च याज्या च शस्यैव तृतीया । किं ताभिर्जयतीति । यत्किञ्चेदं प्राणभृदिति ॥ बृह. ३,१.७ ॥
याज्ञवल्क्येति होवाच कत्ययमद्याध्वर्युरस्मिन् यज्ञ आहुतीर्होष्यतीति । तिस्र इति । कतमास्तास्तिस्र इति । या हुता उज्ज्वलन्ति या हुता अतिनेदन्ति या हुता अधिशेरते । किं ताभिर्जयतीति । या हुता उज्ज्वलन्ति देवलोकमेव ताभिर्जयति । दीप्यत इव हि देवलोको । या हुता अतिनेदन्ते पितृलोकमेव ताभिर्जयति । अतीव हि पितृलोकः । या हुता अधिशेरते मनुष्यलोकमेव ताभिर्जयत्यि । अध इव हि मनुष्यलोकः ॥ ३,१.८ ॥
याज्ञवल्क्येति होवाच कतिभिरयमद्य ब्रह्मा यज्ञं दक्षिणतो देवताभिर्गोपायतीति । एकयेति । कतमा सैकेति । मन एवेति । अनन्तं वै मनोऽनन्ता विश्वे देवाः । अनन्तमेव स तेन लोकं जयति ॥ बृह. ३,१.९ ॥
याज्ञवल्क्येति होवाच कत्ययमद्योद्गातास्मिन् यज्ञे स्तोत्रियाः स्तोष्यतीति । तिस्र इति । कतमास्तास्तिस्र इति । पुरोनुवाक्या च याज्या च शस्यैव तृतीया । कतमास्ताः । या अध्यात्ममिति । प्राण एव पुरोनुवाक्यापानो याज्या व्यानः शस्या । किं ताभिर्जयतीति । पृथिवीलोकमेव पुरोनुवाक्यया जयत्यन्तरिक्षलोकं याज्यया द्युलोकं शस्यया । ततो ह होताश्वल उपरराम ॥ ३,१.१० ॥