Adiparva Adhyaya 31 (आदिपर्वणि अध्यायः ३१)
शौनक उवाच
कोऽपराधो महेन्द्रस्य कः प्रमादश्च सूतज।
तपसा वालखिल्यानां सम्भूतो गरुडः कथम्॥ 1-31-1
कश्यपस्य द्विजातेश्च कथं वै पक्षिराट्सुतः।
अधृष्यः सर्वभूतानामवध्यश्चाभवत्कथम्॥ 1-31-2
कथं च कामचारी स कामवीर्यश्च खेचरः।
एतदिच्छाम्यहं श्रोतुं पुराणो[णे] यदि पठ्यते॥ 1-31-3
सौतिरुवाच
विषयोऽयं पुराणस्य यन्मां त्वं परिपृच्छसि।
शृणु मे वदतः सर्वमेतत्संक्षेपतो द्विज॥ 1-31-4
यजतः पुत्रकामस्य कश्यपस्य प्रजापतेः।
साहाय्यमृषयो देवा गन्धर्वाश्च ददुः किल॥ 1-31-5
तत्रेध्मानयने शक्रो नियुक्तः कश्यपेन ह।
मुनयो वालखिल्याश्च ये चान्ये देवतागणाः॥ 1-31-6
शक्रस्तु वीर्यसदृशमिध्मभारं गिरिप्रभम्।
समुद्यम्यानयामास नातिकृच्छ्रादिव प्रभुः॥ 1-31-7
अथापश्यदृषीन्ह्रस्वानङ्गुष्ठोदरवर्ष[र्ष्म]णः।
पलाशवृत्ति[वर्ति]कामेकां वहतः संहतान्पथि॥ 1-31-8
प्रलीनान्स्वेष्विवाङ्गेषु निराहारांस्तपोधनान्।
क्लिश्यमानान्मन्दबलान्गोष्पदे सम्प्लुतोदके॥ 1-31-9
तान्सर्वान्विस्मयाविष्टो वीर्योन्मत्तः पुरन्दरः।
अप[व]हस्याभ्यगाच्छीघ्रं लङ्घयित्वावमन्य च॥ 1-31-10
तेऽथ रोषसमाविष्टाः सुभृशं जातमन्यवः।
आरेभिरे महत्कर्म तदा शक्रभयंकरम्॥ 1-31-11
जुहुवुस्ते सुतपसो विधिवज्जातवेदसम्।
मन्त्रैरुच्चावचैर्विप्रा येन कामेन तच्छृणु॥ 1-31-12
कामवीर्यः कामगमो देवराजभयप्रदः।
इन्द्रोऽन्यः सर्वदेवानां भवेदिति यतव्रताः॥ 1-31-13
इन्द्राच्छतगुणः शौर्ये वीर्ये चैव मनोजवः।
तपसां[सो] नः फलेनाद्य दारुणः सम्भवत्विति॥ 1-31-14
तद्बुद्ध्वा भृशसंतप्तो देवराजः शतक्रतुः।
जगाम शरणं तत्र कश्यपं संशितव्रतम्॥ 1-31-15
तच्छ्रुत्वा देवराजस्य कश्यपोऽथ प्रजापतिः।
वालखिल्यानुपागम्य कर्मसिद्धिमपृच्छत॥ 1-31-16
एवमस्त्विति तच्चापि [तं चापि] प्रत्यूचुः सत्यवादिनः।
तान्कश्यप उवाचेदं सान्त्वपूर्वं प्रजापतिः॥ 1-31-17
अयमिन्द्रस्त्रिभुवने नियोगाद्ब्रह्मणः कृतः।
इन्द्रार्थे च भवन्तोऽपि यत्नवन्तस्तपोधनाः॥ 1-31-18
न मिथ्या ब्रह्मणो वाक्यं कर्तुमर्हथ सत्तमाः।
भवतां हि न मिथ्यायं संकल्पो वै चिकीर्षितः॥ 1-31-19
भवत्वेष पतदत्त्रीणामिन्द्रोऽतिबलसत्त्ववान्।
प्रसादः क्रियतामस्य देवराजस्य याचतः॥ 1-31-20
एवमुक्ताः कश्यपेन वालखिल्यास्तपोधनाः।
प्रत्यूचुरभिसम्पूज्य मुनिश्रेष्ठं प्रजापतिम्॥ 1-31-21
वालखिल्या ऊचुः
इन्द्रार्थोऽयं समारम्भः सर्वेषां नः प्रजापते।
अपत्यार्थं समारम्भो भवतश्चायमीप्सितः॥ 1-31-22
तदिदं सफलं कर्म त्वयैव प्रतिगृह्यताम्।
तथा चैवं विधत्स्वात्र यथा श्रेयोऽनुपश्यसि॥ 1-31-23
सौतिरुवाच
एतस्मिन्नेव काले तु देवी दाक्षायणी शुभा।
विनता नाम कल्याणी पुत्रकामा यशस्विनी॥ 1-31-24
तपस्तप्ता[प्त्वा] व्रतपरा स्नाता पुंसवने शुचिः।
उपचक्राम भर्तारं तामुवाचाथ कश्यपः॥ 1-31-25
आरम्भः सफलो देवि भविता यस्त्वयेप्सितः।
जनयिष्यसि पुत्रौ द्वौ वीरौ त्रिभुवनेश्वरौ॥ 1-31-26
तपसा वालखिल्यानां मम संकल्पजौ तथा।
भविष्यतो महाभागौ पुत्रौ त्रैलोक्यपूजितौ॥ 1-31-27
उवाच चैनां भगवान्कश्यपः पुनरेव ह।
धार्यतामप्रमादेन गर्भोऽयं सुमहोदयः॥ 1-31-28
एतौ सर्वपतत्त्रीणामिन्द्रत्वं कारयिष्यतः।
लोकसम्भावितौ वीरौ कामरूपौ विहंगमौ॥ 1-31-29
शतक्रतुमथोवाच प्रीयमाणः प्रजापतिः।
त्वत्सहायौ महावीर्यौ भ्रातरौ ते भविष्यतः॥ 1-31-30
नैताभ्यां भविता दोषः सकाशात्ते पुरन्दर।
व्येतु ते शक्र संतापस्त्वमेवेन्द्रो भविष्यसि॥ 1-31-31
न चाप्येवं त्वया भूयः क्षेप्तव्या ब्रह्मवादिनः।
न चावमान्या दर्पात्ते वाग्वज्रा भृशकोपनाः॥ 1-31-32
एवमुक्तो जगामेन्द्रो निर्विशङ्कस्त्रिविष्टपम्।
विनता चापि सिद्धार्था बभूव मुदिता तथा॥ 1-31-33
जनयामास पुत्रौ द्वावरुणं गरुडं तथा।
विकलाङ्गोऽरुणस्तत्र भास्करस्य पुरःसरः॥ 1-31-34
पतत्त्रीणां च गरुडमिन्द्रत्वेनाभ्यषिञ्चत।
तस्यैतत्कर्म सुमहच्छ्रूयतां भृगुनन्दन॥ 1-31-35
इति श्रीमहाभारते आदिपर्वणि आस्तीकपर्वणि सौपर्णे एकत्रिंशोऽध्यायः॥ 31 ॥