Adiparva Adhyaya 129 (आदिपर्वणि अध्यायः १२९)
Jump to navigation
Jump to search
जनमेजय उवाच कृपस्यापि मम ब्रह्मन्सम्भवं वक्तुमर्हसि। शरस्तम्बात्कथं जज्ञे कथं वास्त्राण्यवाप्तवान्॥ 1-129-1 वैशम्पायन उवाच महर्षेर्गौतमस्यासीच्छरद्वान्नाम गौतमः। पुत्रः किल महाराज जातः सह शरैर्विभो॥ 1-129-2 न तस्य वेदाध्ययने तथा बुद्धिरजायत। यथास्य बुद्धिरभवद्धनुर्वेदे परन्तप॥ 1-129-3 अधिजग्मुर्यथा वेदांस्तपसा ब्रह्मचारिणः। तथा स तपसोपेतः सर्वाण्यस्त्राण्यवाप ह॥ 1-129-4 धनुर्वेदपरत्वाच्च तपसा विपुलेन च। भृशं सन्तापयामास देवराजं स गौतमः॥ 1-129-5 ततो जानपदीं नाम देवकन्यां सुरेश्वरः। प्राहिणोत्तपसो विघ्नं कुरु तस्येति कौरव॥ 1-129-6 सा हि गत्वाऽऽश्रमं तस्य रमणीयं शरद्वतः। धनुर्बाणधरं बाला लोभयामास गौतमम्॥ 1-129-7 तामेकवसनां दृष्ट्वा गौतमोऽप्सरसं वने। लोकेऽप्रतिमसंस्थानां प्रोत्फुल्लनयनोऽभवत्॥ 1-129-8 धनुश्च हि शरास्तस्य कराभ्यामपतन्भुवि। वेपथुश्चापि तां दृष्ट्वा शरीरे समजायत॥ 1-129-9 स तु ज्ञानगरीयस्त्वात्तपसश्च समर्थनात्। अवतस्थे महाप्राज्ञो धैर्येण परमेण ह॥ 1-129-10 यस्तस्य सहसा राजन्विकारः समदृश्यत। तेन सुस्राव रेतोऽस्य स च तन्नान्वबुध्यत॥ 1-129-11 धनुश्च सशरं त्यक्त्वा तथा कृष्णाजिनानि च। स विहायाश्रमं तं च तां चैवाप्सरसं मुनिः॥ 1-129-12 जगाम रेतस्तत्तस्य शरस्तम्बे पपात च। शरस्तम्बे च पतितं द्विधा तदभवन्नृप॥ 1-129-13 तस्याथ मिथुनं जज्ञे गौतमस्य शरद्वतः। महर्षेर्गौतमस्यास्य आश्रमस्य समीपतः। मृगयां चरतो राज्ञः शन्तनोस्तु यदृच्छया॥ 1-129-14 कश्चित्सेनाचरोऽरण्ये मिथुनं तदपश्यत। धनुश्च सशरं दृष्ट्वा तथा कृष्णाजिनानि च॥ 1-129-15 ज्ञात्वा द्विजस्य चापत्ये धनुर्वेदान्तगस्य ह। स राज्ञे दर्शयामास मिथुनं सशरं धनुः॥ 1-129-16 स तदादाय मिथुनं राजा च कृपयान्वितः। आजगाम गृहानेव मम पुत्राविति ब्रुवन्॥ 1-129-17 ततः संवर्धयामास संस्कारैश्चाप्ययोजयत्। प्रातीपेयो नरश्रेष्ठो मिथुनं गौतमस्य तत्॥ 1-129-18 गौतमोऽपि ततोऽभ्येत्य धनुर्वेदपरोऽभवत्। कृपया यन्मया बालाविमौ संवर्धिताविति॥ 1-129-19 तस्मात्तयोर्नाम चक्रे तदेव स महीपतिः। तस्मात्कृप इति ख्यातः कृपी कन्या च साऽभवत्। गोपितौ गौतमस्तत्र तपसा समविन्दत॥ 1-129-20 आगत्य तस्मै गोत्रादि सर्वमाख्यातवांस्तदा। कृपोऽपि च तदा राजन्धनुर्वेदपरोऽभवत् चतुर्विधं धनुर्वेदं शास्त्राणि विविधानि च॥ 1-129-21 निखिलेनास्य तत्सर्वं गुह्यमाख्यातवांस्तदा। सोऽचिरेणैव कालेन परमाचार्यतां गतः॥ 1-129-22 कृपमाहूय गाङ्गेयस्तव शिष्या इति ब्रुवन्। पौत्रान्परिसमादाय कृपमाराधयत्तदा॥ ततोऽधिजग्मुः सर्वे ते धनुर्वेदं महारथाः। धृतराष्ट्रात्मजाश्चैव पाण्डवाः सह यादवैः। वृष्णयश्च नृपाश्चान्ये नानादेशसमागताः॥ 1-129-23 वैशम्पायन उवाच विशेषार्थी ततो भीष्मः पौत्राणां विनयेप्सया। कृपाचार्यमासाद्य परमास्त्रज्ञतां गतः। इष्वस्त्रज्ञान्पर्यपृच्छदाचार्यान्वीर्यसम्मतान्। नाल्पधीर्नामहाभागस्तथानानास्त्रकोविदः॥ 1-129-24 नादेवसत्त्वो विनयेत्कुरूनस्त्रे महाबलान्। इति सञ्चिन्त्य गाङ्गेयस्तदा भरतसत्तमः॥ 1-129-25 द्रोणाय वेदविदुषे भारद्वाजाय धीमते। पाण्डवान्कौरवांश्चैव ददौ शिष्यान्नरर्षभ॥ 1-129-26 शास्त्रतः पूजितश्चैव सम्यक्तेन महात्मना। स भीष्मेण महाभागस्तुष्टोऽस्त्रविदुषां वरः॥ 1-129-27 प्रतिजग्राह तान्सर्वान्शिष्यत्वेन महायशाः। शिक्षयामास च द्रोणो धनुर्वेदमशेषतः॥ 1-129-28 तेऽचिरेणैव कालेन सर्वशस्त्रविशारदाः। बभूवुः कौरवा राजन्पाण्डवाश्चामितौजसः॥ 1-129-29 जनमेजय उवाच कथं समभवद्द्रोणः कथं चास्त्राण्यवाप्तवान्। कथं चागात्कुरून्ब्रह्मन्कस्य पुत्रः स वीर्यवान्॥ 1-129-30 कथं चास्य सुतो जातः सोऽश्वत्थामास्त्रवित्तमः। एतदिच्छाम्यहं श्रोतुं विस्तरेण प्रकीर्तय॥ 1-129-31 वैशम्पायन उवाच गङ्गाद्वारं प्रति महान्बभूव भगवानृषिः। भरद्वाज इति ख्यातः सततं संशितव्रतः॥ 1-129-32 सोऽभिषेक्तुं ततो गङ्गां पूर्वमेवागमन्नदीम्। महर्षिभिर्भरद्वाजो हविर्धाने चरन्पुरा॥ 1-129-33 ददर्शाप्सरसं साक्षाद्घृताचीमाप्लुतामृषिः। रूपयौवनसम्पन्नां मददृप्तां मदालसाम्॥ 1-129-34 तस्याः पुनर्नदीतीरे वसनं पर्यवर्तत। व्यपकृष्टाम्बरां दृष्ट्वा तामृषिश्चक्रमे ततः॥ 1-129-35 तत्र संसक्तमनसो भरद्वाजस्य धीमतः। ततोऽस्य रेतश्चस्कन्द तदृषिर्दोण आदधे। ततः समभवद्द्रोणः कलशे तस्य धीमतः। अध्यगीष्ट स वेदांश्च वेदाङ्गानि च सर्वशः॥ 1-129-37 अग्निवेशं महाभागं भरद्वाजः प्रतापवान्। प्रत्यपादयदाग्नेयमस्त्रमस्त्रविदां वरः॥ 1-129-38 अग्नेस्तु जातः स मुनिस्ततो भरतसत्तम। भारद्वाजं तदाग्नेयं महास्त्रं प्रत्यपादयत्॥ 1-129-39 भरद्वाजसखा चासीत्पृषतो नाम पार्थिवः। तस्यापि द्रुपदो नाम तदा समभवत्सुतः॥ 1-129-40 स नित्यमाश्रमं गत्वा द्रोणेन सह पार्थिवः। चिक्रीडाध्ययनं चैव चकार क्षत्रियर्षभः॥ 1-129-41 ततो व्यतीते पृषते स राजा द्रुपदोऽभवत्। पञ्चालेषु महाबाहुरुत्तरेषु नरेश्वर॥ 1-129-42 भरद्वाजोऽपि भगवानारुरोह दिवं तदा। तत्रैव च वसन्द्रोणस्तपस्तेपे महातपाः॥ 1-129-43 वेदवेदाङ्गविद्वान्स तपसा दग्धकिल्बिषः। ततः पितृनियुक्तात्मा पुत्रलोभान्महायशाः॥ 1-129-44 शारद्वतीं ततो भार्यां कृपीं द्रोणोऽन्वविन्दत। अग्निहोत्रे च धर्मे च दमे च सततं रताम्॥ 1-129-45 अलभद्गौतमी पुत्रमश्वत्थामानमेव च । स जातमात्रो व्यनदद्यथैवोच्चैःश्रवा हयः॥ 1-129-46 तच्छ्रुत्वान्तर्हितं भूतमन्तरिक्षस्थमब्रवीत्। अश्वस्येवास्य यत्स्थाम नदतः प्रदिशो गतम्॥ 1-129-47 अश्वत्थामैव बालोऽयं तस्मान्नाम्ना भविष्यति। सुतेन तेन सुप्रीतो भारद्वाजस्ततोऽभवत्॥ 1-129-48 तत्रैव च वसन्धीमान्धनुर्वेदपरोऽभवत्। स शुश्राव महात्मानं जामदग्न्यं परन्तपम्॥ 1-129-49 सर्वज्ञानविदं विप्रं सर्वशस्त्रभृतां वरम्। ब्राह्मणेभ्यस्तदा राजन्दित्सन्तं वसु सर्वशः॥ 1-129-50 स रामस्य धनुर्वेदं दिव्यान्यस्त्राणि चैव हि[ह]। श्रुत्वा तेषु मनश्चक्रे नीतिशास्त्रे तथैव च॥ 1-129-51 ततः स व्रतिभिः शिष्यैस्तपोयुक्तैर्महातपाः। वृतः प्रायान्महाबाहुर्महेन्द्रं पर्वतोत्तमम्॥ 1-129-52 ततो महेन्द्रमासाद्य भारद्वाजो महातपाः। क्षान्तं दान्तममित्रघ्नमपश्यद्भृगूनन्दनम्॥ 1-129-53 ततो द्रोणो वृतः शिष्यैरुपगम्य भृगुद्वहम्। आचख्यावात्मनो नाम जन्म चाङ्गिरसः कुले॥ 1-129-54 निवेद्य शिरसा भूमौ पादौ चैवाभ्यवादयत्। ततस्तं सर्वमुत्सृज्य वनं जिगमिषुं तदा॥ 1-129-55 जामदग्न्यं महात्मानं भारद्वाजोऽब्रवीदिदम्। भरद्वाजात्समुत्पन्नं तथा त्वं मामयोनिजम्॥ 1-129-56 आगतं वित्तकामं मां विद्धि द्रोणं द्विजोत्तम[द्विजर्षभ]। तमब्रवीन्महात्मा स सर्वक्षत्रियमर्दनः॥ 1-129-57 स्वागतं ते द्विजश्रेष्ठ यदिच्छसि वदस्व मे। एवमुक्तस्तु रामेण भारद्वाजोऽब्रवीद्वचः॥ 1-129-58 आगतं वित्तकामं मां विद्धि द्रोणं द्विजर्षभ। रामं प्रहरतां श्रेष्ठं दित्सन्तं विविधं वसु। अहं धनमनन्तं हि प्रार्थये विपुलव्रत॥ 1-129-59 राम उवाच हिरण्यं मम यच्चान्यद्वसु किञ्चिदिह स्थितम्। ब्राह्मणेभ्यो मया दत्तं सर्वमेतत्तपोधन॥ 1-129-60 तथैवेयं धरा देवी सागरान्ता सपत्तना। कश्यपाय मया दत्ता कृत्स्ना नगरमालिनी॥ 1-129-61 शरीरमात्रमेवाद्य ममेदमवशेषितम्। अस्त्राणि च महार्हाणि शस्त्राणि विविधानि च॥ 1-129-62 अस्त्राणि वा शरीरं वा वरयैतन्मयोद्यतम्। वृणीष्व किं प्रयच्छामि तुभ्यं द्रोण वदाशु तत्॥ 1-129-63 द्रोण उवाच अस्त्राणि मे समग्राणि ससंहाराणि भार्गव। सप्रयोगरहस्यानि दातुमर्हस्यशेषतः॥ 1-129-64 तथेत्युक्त्वा ततस्तस्मै प्रादादस्त्राणि भार्गवः। सरहस्यव्रतं चैव धनुर्वेदमशेषतः॥ 1-129-65 प्रतिगृह्य तु तत्सर्वं कृतास्त्रो द्विजसत्तमः। प्रियं सखायं सुप्रीतो जगाम द्रुपदं प्रति॥ 1-129-66 इति श्रीमहाभारते आदिपर्वणि सम्भवपर्वणि द्रोणस्य भार्गवादस्त्रप्राप्तौ ऊनत्रिंशदधिकशततमोऽध्यायः॥ 129॥ Kripacharya Drona Ashwathama genesis origin birth Parshurama weapons acquire weapons कृपाचार्य द्रोण अश्वत्थामा उत्पत्ति परशुराम अस्त्र-शस्त्र प्राप्ति अस्त्र-शास्त्र प्राप्ति