Adiparva Adhyaya 133 (आदिपर्वणि अध्यायः १३३)
वैशम्पायन उवाच
कृतास्त्रान्धार्तराष्ट्रांश्च पाण्डुपुत्रांश्च भारत।
दृष्ट्वा द्रोणोऽब्रवीद्राजन्धृतराष्ट्रं जनेश्वरम्॥ 1-133-1
कृपस्य सोमदत्तस्य बाह्लीकस्य च धीमतः।
गाङ्गेयस्य च सान्निध्ये व्यासस्य विदुरस्य च॥ 1-133-2
राजन्सम्प्राप्तविद्यास्ते कुमाराः कुरुसत्तम।
ते दर्शयेयुः स्वां शिक्षां राजन्ननुमते तव।
ततोऽब्रवीन्महाराजः प्रहृष्टेनान्तरात्मना॥ 1-133-3
धृतराष्ट्र उवाच
भारद्वाज महत्कर्म कृतं ते द्विजसत्तम।
यदानुमन्यसे कालं यस्मिन्देशे यथा यथा।
तथा तथा विधानाय स्वयमाज्ञापयस्व माम्॥ 1-133-4
स्पृहयाम्यद्य निर्वेदात्पुरुषाणां सचक्षुषाम्।
अस्त्रहेतोः पराक्रान्तान्ये मे द्रक्ष्यन्ति पुत्रकान्॥ 1-133-5
क्षत्तर्यद्गुरुराचार्यो ब्रवीति कुरु तत्तथा।
न हीदृशं प्रियं मन्ये भविता धर्मवत्सल॥ 1-133-6
ततो राजानमामन्त्र्य निर्गतो विदुरो बहिः।
भारद्वाजो महाप्राज्ञो मापयामास मेदिनीम्॥ 1-133-7
समामवृक्षां निर्गुल्मामुदक्प्रस्रवणान्विताम्।
तस्यां भूमौ बलिं चक्रे तिथौ नक्षत्रपूजिते॥ 1-133-8
अवघुष्टे समाजे च तदर्थं वदतां वरः।
रङ्गभूमौ सुविपुलं शास्त्रदृष्टं यथाविधि॥ 1-133-9
प्रेक्षागारं सुविहितं चक्रुस्ते तस्य शिल्पिनः।
राज्ञः सर्वायुधोपेतं स्त्रीणां चैव नरर्षभ॥ 1-133-10
मञ्चांश्च कारयामासुस्तत्र जानपदा जनाः।
विपुलानुच्छ्रयोपेतान्शिबिकाश्च महाधनाः॥ 1-133-11
तस्मिंस्ततोऽहनि प्राप्ते राजा ससचिवस्तदा।
सान्तःपुरस्सहामात्यो व्यासस्यानुमते तदा।
भीष्मं प्रमुखतः कृत्वा कृपं चाचार्यसत्तमम्॥ 1-133-12
(बाह्लीकं सोमदत्तं च भूरिश्रवसमेव च।
कुरूनन्यांश्च सचिवानादाय नगराद्बहिः॥)
मुक्ताजालपरिक्षिप्तं वैदूर्यमणिशोभितम्।
शातकुम्भमयं दिव्यं प्रेक्षागारमुपागमत्॥ 1-133-13
गान्धारी च महाभागा कुन्ती च जयतां वर।
स्त्रियश्च राज्ञः सर्वास्ताः सप्रेष्याः सपरिच्छदाः॥ 1-133-14
हर्षादारुरुहुर्मुञ्चान्मेरुं देवस्त्रियो यथा।
ब्राह्मणक्षत्रियाद्यं च चातुर्वर्ण्यं पुराद्द्रुतम्॥ 1-133-15
दर्शनेप्सु समभ्यागात्कुमाराणां कृतास्त्रताम्।
क्षणेनैकस्थतां तत्र दर्शनेप्सु जगाम ह॥ 1-133-16
प्रवादितैश्च वादित्रैर्जनकौतूहलेन च।
महार्णव इव क्षुब्धः समाजः सोऽभवत्तदा॥ 1-133-17
ततः शुक्लाम्बरधरः शुक्लयज्ञोपवीतवान्।
शुक्लकेशः सितश्मश्रुः शुक्लमाल्यानुलेपनः॥ 1-133-18
रङ्गमध्यं तदाऽऽचार्यः सपुत्रः प्रविवेश ह।
नभो जलधरैर्हीनं साङ्गारक इवांशुमान्॥ 1-133-19
स यथासमयं चक्रे बलिं बलवतां वरः।
ब्राह्मणांस्तु सुमन्त्रज्ञान्कारयामास मङ्गलम्॥ 1-133-20
(सुवर्णमणिरत्नानि वस्त्राणि विविधानि च।
प्रददौ दक्षिणां राजा द्रोणस्य च कृपस्य च॥)
सुखपुण्यार्हघोषस्य पुण्यस्य समनन्तरम्।
विविशुर्विविधं गृह्य शस्त्रोपकरणं नराः॥ 1-133-21
ततो बद्धाङ्गुलित्राणा बद्धकक्षा महारथाः।
बद्धतूणाः सधनुषो विविशुर्भरतर्षभाः॥ 1-133-22
अनुज्येष्ठं तु ते तत्र युधिष्ठिरपुरोगमाः।
(रणमध्ये स्थितं द्रोणमभिवाद्य नरर्षभाः।
पूजां चक्रुर्यथान्यायं द्रोणस्य च कृपस्य च॥
आशीर्भिश्च प्रयुक्ताभिः सर्वे संहृष्टमानसाः।
अभिवाद्य पुनः शस्त्रान्बलिपुष्पैः समन्वितान्॥
रक्तचन्दनसम्मिश्रैः स्वयमार्चन्त कौरवाः।
रक्तचन्दनदिग्धाश्च रक्तमाल्यानुधारिणः॥
सर्वे रक्तपताकाश्च सर्वे रक्तान्तलोचनाः।
द्रोणेन समनुज्ञाता गृह्य शस्त्रं परन्तपाः॥
धनूंषि पूर्वं सङ्गृह्य तप्तकाञ्चनभूषिताः।
सज्यानि विविधाकारैः शरैः सन्धाय कौरवाः॥
ज्याघोषं तलघोषं च कृत्वा भूतान्यपूजयन्।)
चक्रुरस्त्रं महावीर्याः कुमाराः परमाद्भुतम्॥ 1-133-23
केचिच्छराक्षेपभयाच्छिरांस्यवननामिरे।
केषांचित्तरुमूलेषु शरा निपतिता नृप।
केषांचित्पुष्पमुकुटे निपतन्ति स्म सायकाः॥
केचिल्लक्ष्याणि विविधैर्बाणैराहितलक्षणैः।
बिभिदुर्लाघवोत्सृष्टैर्गुरूणि च लघूनि च॥
केचिच्छराक्षेपभयाच्छिरांस्यवननामिरे।
मनुजा धृष्टमपरे वीक्षाञ्चक्रुः सुविस्मिताः॥ 1-133-24
ते स्म लक्ष्याणि बिभिदुर्बाणैर्नामाङ्कशोभितैः।
विविधैर्लाघवोत्सृष्टैरुह्यन्तो वाजिभिर्द्रुतम्॥ 1-133-25
तत्कुमारबलं तत्र गृहीतशरकार्मुकम्।
गन्धर्वनगराकारं प्रेक्ष्य ते विस्मिताभवन्॥ 1-133-26
सहसा चुक्रुशुश्चान्ये नराः शतसहस्रशः।
विस्मयोत्फुल्लनयनाः साधु साध्विति भारत॥ 1-133-27
कृत्वा धनुषि ते मार्गान्रथचर्यासु चासकृत्।
गजपृष्ठेऽश्वपृष्ठे च नियुद्धे च महाबलः॥ 1-133-28
गृहीतखड्गचर्माणस्ततो भूयः प्रहारिणः।
त्सरुमार्गान्यथोद्दिष्टांश्चेरुः सर्वासु भूमिषु॥ 1-133-29
लाघवं सौष्ठवं शोभां स्थिरत्वं दृढमुष्टिताम्।
ददृशुस्तत्र सर्वेषां प्रयोगं खड्गचर्मणोः॥ 1-133-30
अथ तौ नित्यसंहृष्टौ सुयोधनवृकोदरौ।
अवतीर्णौ गदाहस्तावेकशृङ्गाविवाचलौ॥ 1-133-31
बद्धकक्षौ महाबाहू पौरुषे पर्यवस्थितौ।
बृंहन्तौ वासिताहेतोः समदाविव कुञ्जरौ॥ 1-133-32
तौ प्रदक्षिणसव्यानि मण्डलानि महाबलौ।
चेरतुर्मण्डलगतौ समदाविव कुञ्जरौ॥ 1-133-33
विदुरो धृतराष्ट्राय गान्धार्याः पाण्डवारणिः।
न्यवेदयेतां तत्सर्वं कुमाराणां विचेष्टितम्॥ 1-133-34
इति श्रीमहाभारते आदिपर्वणि सम्भवपर्वण्यस्त्रदर्शने त्रयस्त्रिंशदधिकशततमोऽध्यायः॥ 133॥