Adiparva Adhyaya 24 (आदिपर्वणि अध्यायः २४)
Jump to navigation
Jump to search
सौतिरुवाच स श्रुत्वाथात्मनो देहं सुपर्णः प्रेक्ष्य च स्वयम्। शरीरप्रतिसंहारमात्मनः सम्प्रचक्रमे॥ 1-24-1 सुपर्ण उवाच न मे सर्वाणि भूतानि बिभियुर्देहदर्शनात्। भीमरूपात्समुद्विग्नास्तस्मात्तेजस्तु संहरे॥ 1-24-2 सौतिरुवाच ततः कामगमः पक्षी कामवीर्यो विहंगमः। अरुणं चात्मनः पृष्टमारोप्य स पितुर्गृहात्॥ 1-24-3 मातुरन्तिकमागच्छत्परं तीरं महोदधेः। तत्रारुणश्च निक्षिप्तो दिशं पूर्वां महाद्युतिः॥ 1-24-4 सूर्यस्तेजोभिरत्युग्रैर्लोकान्दग्धुमना यदा। रुरुरुवाच किमथ भगवान्सूर्यो लोकान्दग्धुमनास्तदा॥ 1-24-5 किमस्यापहृतं देवैर्येनेमं मन्युराविशत्। प्रमातिरुवाच चन्द्रार्काभ्यां यदा राहुराख्यातो ह्यमृतं पिवन्॥ 1-24-6 वैरानुबन्धं कृतवांश्चन्द्रादित्यौ तदानघ। वध्यमाने ग्रहेणाथ आदित्ये मन्युराविशत्॥ 1-24-7 सुरार्थाय समुत्पन्नो रोषो राहोस्तु मां प्रति। बह्वनर्थकरं पापमेकोऽहं समवाप्नुयाम्॥ 1-24-8 सहाय एव कार्येषु न च कृच्छ्रेषु दृश्यते। पश्यन्ति ग्रस्यमानं मां सहन्ते वै दिवौकसः॥ 1-24-9 तस्माल्लोकविनाशार्थं ह्यवतिष्ठे न संशयः। एवं कृतमतिः सूर्यो ह्यस्तमभ्यगमद्गिरिम्॥ 1-24-10 तस्माल्लोकविनाशाय संतापयत भास्करः। ततो देवानुपागम्य प्रोचुरेवं महर्षयः॥ 1-24-11 अद्यार्धरात्रसमये सर्वलोकभयावहः। उत्पत्स्यते महान्दाहस्त्रैलोक्यस्य विनाशनः॥ 1-24-12 ततो देवाः सर्पिगणा उपगम्य पितामहम्। अब्रुवन्किमिवेहाद्य महद्दाहकृतं भयम्॥ 1-24-13 न तावद्दृश्यते सूर्यः क्षयोऽयं प्रतिभाति च। उदिते भगवन्भानौ कथमेतद्भविष्यति॥ 1-24-14 पितामह उवाच एष लोकविनाशाय रविरुद्यन्तुमुद्यतः। दृश्यन्नेव हि लोकान्स भस्मराशीकरिष्यति॥ 1-24-15 तस्य प्रतिविधानं च विहितं पूर्वमेव हि। कश्यपस्य सुतो धीमानरुणेत्यभिविश्रुतः॥ 1-24-16 महाकायो महातेजाः स स्थास्यति पुरो रवेः। करिष्यति च सारथ्यं तेजश्चास्य हरिष्यति। लोकानां स्वस्ति चैवं स्यादृषीणां च दिवौकसाम्॥ 1-24-17 प्रमतिरुवाच ततः पितामहाज्ञातः सर्वं चक्रे तदारुणः। उदितश्चैव सविता ह्यरुणेन समावृतः। एतत्ते सर्वमाख्यातं यत्सूर्यं मन्युराविशत्॥ 1-24-18 अरुणश्च यथैवास्य सारथ्यमकरोत्प्रभुः। भूय एवापरं प्रश्नं शृणु पूर्वमुदाहृतम्॥ 1-24-19 इति श्रीमहाभारते आदिपर्वणि आस्तीकपर्वणि सौपर्णे चतुर्विंशोऽध्यायः॥ 24 ॥ Garuda Garuda restricts संकुचित गरुड गरुडके शरीर संकुचित