Difference between revisions of "Karma Sannyasa Yoga (कर्मसन्न्यासयोगः)"
(Added Categories) |
(Adding verses from Gita Chapter 5) |
||
Line 1: | Line 1: | ||
[[Category:Bhagavad Gita]] | [[Category:Bhagavad Gita]] | ||
[[Category:Prasthana Trayi]] | [[Category:Prasthana Trayi]] | ||
+ | |||
+ | == Verses == | ||
+ | ॐ | ||
+ | श्रीपरमात्मने नमः | ||
+ | '''अथ पञ्चमोऽध्यायः''' | ||
+ | '''अर्जुन उवाच''' | ||
+ | संन्यासं कर्मणां कृष्ण पुनर्योगं च शंससि । | ||
+ | यच्छ्रेय एतयोरेकं तन्मे ब्रूहि सुनिश्चितम् ॥५- १॥ | ||
+ | |||
+ | '''श्रीभगवानुवाच''' | ||
+ | |||
+ | |||
+ | संन्यासः कर्मयोगश्च निःश्रेयसकरावुभौ । | ||
+ | तयोस्तु कर्मसंन्यासात्कर्मयोगो विशिष्यते ॥५- २॥ | ||
+ | |||
+ | ज्ञेयः स नित्यसंन्यासी यो न द्वेष्टि न काङ्क्षति । | ||
+ | निर्द्वन्द्वो हि महाबाहो सुखं बन्धात्प्रमुच्यते ॥५- ३॥ | ||
+ | |||
+ | सांख्ययोगौ पृथग्बालाः प्रवदन्ति न पण्डिताः । | ||
+ | एकमप्यास्थितः सम्यगुभयोर्विन्दते फलम् ॥५- ४॥ | ||
+ | |||
+ | यत्सांख्यैः प्राप्यते स्थानं तद्योगैरपि गम्यते । | ||
+ | एकं सांख्यं च योगं च यः पश्यति स: पश्यति ॥५- ५॥ | ||
+ | |||
+ | संन्यासस्तु महाबाहो दुःखमाप्तुमयोगतः । | ||
+ | योगयुक्तो मुनिर्ब्रह्म नचिरेणाधिगच्छति ॥५- ६॥ | ||
+ | |||
+ | योगयुक्तो विशुद्धात्मा विजितात्मा जितेन्द्रियः । | ||
+ | सर्वभूतात्मभूतात्मा कुर्वन्नपि न लिप्यते ॥५- ७॥ | ||
+ | |||
+ | नैव किंचित्करोमीति युक्तो मन्येत तत्त्ववित् । | ||
+ | पश्यञ्श्रृण्वन्स्पृशञ्जिघ्रन्नश्नन्गच्छन्स्वपञ्श्वसन् ॥५- ८॥ | ||
+ | |||
+ | प्रलपन्विसृजन्गृह्णन्नुन्मिषन्निमिषन्नपि । | ||
+ | इन्द्रियाणीन्द्रियार्थेषु वर्तन्त इति धारयन् ॥५- ९॥ | ||
+ | |||
+ | ब्रह्मण्याधाय कर्माणि सङ्गं त्यक्त्वा करोति यः । | ||
+ | लिप्यते न स पापेन पद्मपत्रमिवाम्भसा ॥५- १०॥ | ||
+ | |||
+ | कायेन मनसा बुद्ध्या केवलैरिन्द्रियैरपि । | ||
+ | योगिनः कर्म कुर्वन्ति सङ्गं त्यक्त्वात्मशुद्धये ॥५- ११॥ | ||
+ | |||
+ | युक्तः कर्मफलं त्यक्त्वा शान्तिमाप्नोति नैष्ठिकीम् । | ||
+ | अयुक्तः कामकारेण फले सक्तो निबध्यते ॥५- १२॥ | ||
+ | |||
+ | सर्वकर्माणि मनसा संन्यस्यास्ते सुखं वशी । | ||
+ | नवद्वारे पुरे देही नैव कुर्वन्न कारयन् ॥५- १३॥ | ||
+ | |||
+ | न कर्तृत्वं न कर्माणि लोकस्य सृजति प्रभुः । | ||
+ | न कर्मफलसंयोगं स्वभावस्तु प्रवर्तते ॥५- १४॥ | ||
+ | |||
+ | नादत्ते कस्यचित्पापं न चैव सुकृतं विभुः । | ||
+ | अज्ञानेनावृतं ज्ञानं तेन मुह्यन्ति जन्तवः ॥५- १५॥ | ||
+ | |||
+ | ज्ञानेन तु तदज्ञानं येषां नाशितमात्मनः । | ||
+ | तेषामादित्यवज्ज्ञानं प्रकाशयति तत्परम् ॥५- १६॥ | ||
+ | |||
+ | तद्बुद्धयस्तदात्मानस्तन्निष्ठास्तत्परायणाः । | ||
+ | गच्छन्त्यपुनरावृत्तिं ज्ञाननिर्धूतकल्मषाः ॥५- १७॥ | ||
+ | |||
+ | विद्याविनयसंपन्ने ब्राह्मणे गवि हस्तिनि । | ||
+ | शुनि चैव श्वपाके च पण्डिताः समदर्शिनः ॥५- १८॥ | ||
+ | |||
+ | इहैव तैर्जितः सर्गो येषां साम्ये स्थितं मनः । | ||
+ | निर्दोषं हि समं ब्रह्म तस्माद्ब्रह्मणि ते स्थिताः ॥५- १९॥ | ||
+ | |||
+ | न प्रहृष्येत्प्रियं प्राप्य नोद्विजेत्प्राप्य चाप्रियम् । | ||
+ | स्थिरबुद्धिरसंमूढो ब्रह्मविद्ब्रह्मणि स्थितः ॥५- २०॥ | ||
+ | |||
+ | बाह्यस्पर्शेष्वसक्तात्मा विन्दत्यात्मनि यत् सुखम् । | ||
+ | स ब्रह्मयोगयुक्तात्मा सुखमक्षयमश्नुते ॥५- २१॥ | ||
+ | |||
+ | ये हि संस्पर्शजा भोगा दुःखयोनय एव ते । | ||
+ | आद्यन्तवन्तः कौन्तेय न तेषु रमते बुधः ॥५- २२॥ | ||
+ | |||
+ | शक्नोतीहैव यः सोढुं प्राक्शरीरविमोक्षणात् । | ||
+ | कामक्रोधोद्भवं वेगं स युक्तः स सुखी नरः ॥५- २३॥ | ||
+ | |||
+ | योऽन्तःसुखोऽन्तरारामस्तथान्तर्ज्योतिरेव यः । | ||
+ | स योगी ब्रह्मनिर्वाणं ब्रह्मभूतोऽधिगच्छति ॥५- २४॥ | ||
+ | |||
+ | लभन्ते ब्रह्मनिर्वाणमृषयः क्षीणकल्मषाः । | ||
+ | छिन्नद्वैधा यतात्मानः सर्वभूतहिते रताः ॥५- २५॥ | ||
+ | |||
+ | कामक्रोधवियुक्तानां यतीनां यतचेतसाम् । | ||
+ | अभितो ब्रह्मनिर्वाणं वर्तते विदितात्मनाम् ॥५- २६॥ | ||
+ | |||
+ | स्पर्शान्कृत्वा बहिर्बाह्यांश्चक्षुश्चैवान्तरे भ्रुवोः । | ||
+ | प्राणापानौ समौ कृत्वा नासाभ्यन्तरचारिणौ ॥५- २७॥ | ||
+ | |||
+ | यतेन्द्रियमनोबुद्धिर्मुनिर्मोक्षपरायणः । | ||
+ | विगतेच्छाभयक्रोधो यः सदा मुक्त एव सः ॥५- २८॥ | ||
+ | |||
+ | भोक्तारं यज्ञतपसां सर्वलोकमहेश्वरम् । | ||
+ | सुहृदं सर्वभूतानां ज्ञात्वा मां शान्तिमृच्छति ॥५- २९॥ | ||
+ | |||
+ | ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे | ||
+ | श्रीकृष्णार्जुनसंवादे कर्मसंन्यासयोगो नाम पञ्चमोऽध्यायः ॥ ५ ॥ |
Revision as of 15:11, 10 August 2018
Verses
ॐ श्रीपरमात्मने नमः अथ पञ्चमोऽध्यायः अर्जुन उवाच संन्यासं कर्मणां कृष्ण पुनर्योगं च शंससि । यच्छ्रेय एतयोरेकं तन्मे ब्रूहि सुनिश्चितम् ॥५- १॥
श्रीभगवानुवाच
संन्यासः कर्मयोगश्च निःश्रेयसकरावुभौ ।
तयोस्तु कर्मसंन्यासात्कर्मयोगो विशिष्यते ॥५- २॥
ज्ञेयः स नित्यसंन्यासी यो न द्वेष्टि न काङ्क्षति । निर्द्वन्द्वो हि महाबाहो सुखं बन्धात्प्रमुच्यते ॥५- ३॥
सांख्ययोगौ पृथग्बालाः प्रवदन्ति न पण्डिताः । एकमप्यास्थितः सम्यगुभयोर्विन्दते फलम् ॥५- ४॥
यत्सांख्यैः प्राप्यते स्थानं तद्योगैरपि गम्यते । एकं सांख्यं च योगं च यः पश्यति स: पश्यति ॥५- ५॥
संन्यासस्तु महाबाहो दुःखमाप्तुमयोगतः । योगयुक्तो मुनिर्ब्रह्म नचिरेणाधिगच्छति ॥५- ६॥
योगयुक्तो विशुद्धात्मा विजितात्मा जितेन्द्रियः । सर्वभूतात्मभूतात्मा कुर्वन्नपि न लिप्यते ॥५- ७॥
नैव किंचित्करोमीति युक्तो मन्येत तत्त्ववित् । पश्यञ्श्रृण्वन्स्पृशञ्जिघ्रन्नश्नन्गच्छन्स्वपञ्श्वसन् ॥५- ८॥
प्रलपन्विसृजन्गृह्णन्नुन्मिषन्निमिषन्नपि । इन्द्रियाणीन्द्रियार्थेषु वर्तन्त इति धारयन् ॥५- ९॥
ब्रह्मण्याधाय कर्माणि सङ्गं त्यक्त्वा करोति यः । लिप्यते न स पापेन पद्मपत्रमिवाम्भसा ॥५- १०॥
कायेन मनसा बुद्ध्या केवलैरिन्द्रियैरपि । योगिनः कर्म कुर्वन्ति सङ्गं त्यक्त्वात्मशुद्धये ॥५- ११॥
युक्तः कर्मफलं त्यक्त्वा शान्तिमाप्नोति नैष्ठिकीम् । अयुक्तः कामकारेण फले सक्तो निबध्यते ॥५- १२॥
सर्वकर्माणि मनसा संन्यस्यास्ते सुखं वशी । नवद्वारे पुरे देही नैव कुर्वन्न कारयन् ॥५- १३॥
न कर्तृत्वं न कर्माणि लोकस्य सृजति प्रभुः । न कर्मफलसंयोगं स्वभावस्तु प्रवर्तते ॥५- १४॥
नादत्ते कस्यचित्पापं न चैव सुकृतं विभुः । अज्ञानेनावृतं ज्ञानं तेन मुह्यन्ति जन्तवः ॥५- १५॥
ज्ञानेन तु तदज्ञानं येषां नाशितमात्मनः । तेषामादित्यवज्ज्ञानं प्रकाशयति तत्परम् ॥५- १६॥
तद्बुद्धयस्तदात्मानस्तन्निष्ठास्तत्परायणाः । गच्छन्त्यपुनरावृत्तिं ज्ञाननिर्धूतकल्मषाः ॥५- १७॥
विद्याविनयसंपन्ने ब्राह्मणे गवि हस्तिनि । शुनि चैव श्वपाके च पण्डिताः समदर्शिनः ॥५- १८॥
इहैव तैर्जितः सर्गो येषां साम्ये स्थितं मनः । निर्दोषं हि समं ब्रह्म तस्माद्ब्रह्मणि ते स्थिताः ॥५- १९॥
न प्रहृष्येत्प्रियं प्राप्य नोद्विजेत्प्राप्य चाप्रियम् । स्थिरबुद्धिरसंमूढो ब्रह्मविद्ब्रह्मणि स्थितः ॥५- २०॥
बाह्यस्पर्शेष्वसक्तात्मा विन्दत्यात्मनि यत् सुखम् । स ब्रह्मयोगयुक्तात्मा सुखमक्षयमश्नुते ॥५- २१॥
ये हि संस्पर्शजा भोगा दुःखयोनय एव ते । आद्यन्तवन्तः कौन्तेय न तेषु रमते बुधः ॥५- २२॥
शक्नोतीहैव यः सोढुं प्राक्शरीरविमोक्षणात् । कामक्रोधोद्भवं वेगं स युक्तः स सुखी नरः ॥५- २३॥
योऽन्तःसुखोऽन्तरारामस्तथान्तर्ज्योतिरेव यः । स योगी ब्रह्मनिर्वाणं ब्रह्मभूतोऽधिगच्छति ॥५- २४॥
लभन्ते ब्रह्मनिर्वाणमृषयः क्षीणकल्मषाः । छिन्नद्वैधा यतात्मानः सर्वभूतहिते रताः ॥५- २५॥
कामक्रोधवियुक्तानां यतीनां यतचेतसाम् । अभितो ब्रह्मनिर्वाणं वर्तते विदितात्मनाम् ॥५- २६॥
स्पर्शान्कृत्वा बहिर्बाह्यांश्चक्षुश्चैवान्तरे भ्रुवोः । प्राणापानौ समौ कृत्वा नासाभ्यन्तरचारिणौ ॥५- २७॥
यतेन्द्रियमनोबुद्धिर्मुनिर्मोक्षपरायणः । विगतेच्छाभयक्रोधो यः सदा मुक्त एव सः ॥५- २८॥
भोक्तारं यज्ञतपसां सर्वलोकमहेश्वरम् । सुहृदं सर्वभूतानां ज्ञात्वा मां शान्तिमृच्छति ॥५- २९॥
ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे कर्मसंन्यासयोगो नाम पञ्चमोऽध्यायः ॥ ५ ॥