Difference between revisions of "Vanaparva Adhyaya 10 (वनपर्वणि अध्यायः १० )"
Jump to navigation
Jump to search
(Added tags) |
m |
||
Line 8: | Line 8: | ||
अन्वशाधि दुरात्मानं पुत्रं दुर्योधनं मम॥ 3-10-3 | अन्वशाधि दुरात्मानं पुत्रं दुर्योधनं मम॥ 3-10-3 | ||
[[:Category:Dhrtarashtra seeks advice|Dhrtarashtra seeks advice]] | [[:Category:Dhrtarashtra seeks advice|Dhrtarashtra seeks advice]] | ||
− | + | ||
व्यास उवाच | व्यास उवाच | ||
Latest revision as of 11:19, 30 November 2019
धृतराष्ट्र उवाच
एवमेतन्महाप्राज्ञ यथा वदसि नो मुने। अहं चैव विजानामि सर्वे चेमे नराधिपाः॥ 3-10-1 भवांश्च मन्यते साधु यत्कुरूणां महोदयम्। तदेव विदुरोऽप्याह भीष्मो द्रोणश्च मां मुने॥ 3-10-2 यदि त्वहमनुग्राह्यः कौरव्येषु दया यदि। अन्वशाधि दुरात्मानं पुत्रं दुर्योधनं मम॥ 3-10-3 Dhrtarashtra seeks advice
व्यास उवाच
अयमायाति वै राजन्मैत्रेयो भगवानृषिः। अन्विष्य पाण्डवान्भ्रातॄनिहैत्यस्मद्दिदृक्षया॥ 3-10-4 एष दुर्योधनं पुत्रं तव राजन्महानृषिः। अनुशास्ता यथान्यायं शमायास्य कुलस्य च॥ 3-10-5 ब्रूयाद्यदेष कौरव्य तत्कार्यमविशङ्कया। अक्रियायां तु कार्यस्य पुत्रं ते शप्स्यते रुषा॥ 3-10-6 Sage Maitreya
वैशम्पायन उवाच
एवमुक्त्वा ययौ व्यासो मैत्रेयः प्रत्यदृश्यत। पूजया प्रतिजग्राह सपुत्रस्तं नराधिपः॥ 3-10-7 अर्घ्याद्याभिः क्रियाभिर्वै विश्रान्तं मुनिसत्तमम्। प्रश्रयेणाब्रवीद्राजा धृतराष्ट्रोऽम्बिकासुतः॥ 3-10-8 सुखेनागमनं कच्चिद्भगवन्कुरुजाङ्गलान्। कच्चित्कुशलिनो वीरा भ्रातरः पञ्च पाण्डवाः॥ 3-10-9 समये स्थातुमिच्छन्ति कच्चिच्च भरतर्षभाः। कच्चित्कुरूणां सौभ्रात्रमव्युच्छिन्नं भविष्यति॥ 3-10-10 आतिथ्यम् Hospitality
मैत्रेय उवाच
तीर्थयात्रामनुक्रामन्प्राप्तोऽस्मि कुरुजाङ्गलान्। यदृच्छया धर्मराजं दृष्टवान्काम्यके वने॥ 3-10-11 तं जटाजिनसंवीतं तपोवननिवासिनम्। समाजग्मुर्महात्मानं द्रष्टुं मुनिगणाः प्रभो॥ 3-10-12 Pandavas in exile
तत्राश्रौषं महाराज पुत्राणां तव विभ्रमम्। अनयं द्यूतरूपेण महाभयमुपस्थितम्॥ 3-10-13 Kaurvas
ततोऽहं त्वामनुप्राप्तः कौरवाणामवेक्षया। सदा ह्यभ्यधिकः स्नेहः प्रीतिश्च त्वयि मे प्रभो॥ 3-10-14 नैतदौपयिकं राजंस्त्वयि भीष्मे च जीवति। दन्योन्येन ते पुत्रा विरुध्यन्ते कथञ्चन॥ 3-10-15 मेढीभूतः स्वयं राजन्निग्रहे प्रग्रहे भवान्। किमर्थमनयं घोरमुत्पद्यन्तमुपेक्षसे॥ 3-10-16 दस्यूनामिव यद्वृत्तं सभायां कुरुनन्दन। तेन न भ्राजसे राजंस्तापसानां समागमे॥ 3-10-17
वैशम्पायन उवाच
ततो व्यावृत्य राजानं दुर्योधनममर्षणम्। उवाच श्लक्ष्णया वाचा मैत्रेयो भगवानृषिः॥ 3-10-18 मैत्रेय उवाच दुर्योधन महाबाहो निबोध वदतां वर। वचनं मे महाभाग ब्रुवतो यद्धितं तव॥ 3-10-19 मा द्रुहः पाण्डवान्राजन्कुरुष्व प्रियमात्मनः। पाण्डवानां कुरूणां च लोकस्य च नरर्षभ॥ 3-10-20 Sage Maitreya advices Duryodhana
ते हि सर्वे नरव्याघ्राः शूरा विक्रान्तयोधिनः। सर्वे नागायुतप्राणा वज्रसंहनना दृढाः॥ 3-10-21 सत्यव्रतधराः सर्वे सर्वे पुरुषमानिनः। हन्तारो देवशत्रूणां रक्षसां कामरूपिणाम्॥ 3-10-22 Pandavas
हिडिम्बबकमुख्यानां किर्मीरस्य च रक्षसः। इतः प्रद्रवतां रात्रौ यः स तेषां महात्मनाम्॥ 3-10-23 आवृत्य मार्गं रौद्रात्मा तस्थौ गिरिरिवाचलः। तं भीमः समरश्लाघी बलेन बलिनां वरः॥ 3-10-24 जघान पशुमारेण व्याघ्रः क्षुद्रमृगं यथा। पश्य दिग्विजये राजन्यथा भीमेन पातितः॥ 3-10-25 जरासन्धो महेष्वासो नागायुतबलो युधि। सम्बन्धी वासुदेवश्च श्यालाः सर्वे च पार्षताः॥ 3-10-26 Bheema Draupadi's sons
कस्तान्युधि समासीत जरामरणवान्नरः। तस्य ते शम एवास्तु पाण्डवैर्भरतर्षभ। Pandavas
कुरु मे वचनं राजन्मा मन्युवशमन्वगाः॥ 3-10-27
वैशम्पायन उवाच
एवं तु ब्रुवतस्तस्य मैत्रेयस्य विशाम्पते। ऊरुं गजकराकारं करेणाभिजघान सः॥ 3-10-28 दुर्योधनः स्मितं कृत्वा चरणेनोल्लिखन्महीम्। न किञ्चिदुक्त्वा दुर्मेधास्तस्थौ किञ्चिदवाङ्मुखः॥ 3-10-29 तमशुश्रूषमाणं तु विलिखन्तं वसुन्धराम्। दृष्ट्वा दुर्योधनं राजन्मैत्रेयं कोप आविशत्॥ 3-10-30 स कोपवशमापन्नो मैत्रेयो मुनिसत्तमः। विधिना सम्प्रणुदितः शापायास्य मनो दधे॥ 3-10-31 ततः स वार्युपस्पृश्य कोपसंरक्तलोचनः। मैत्रेयो धार्तराष्ट्रं तमशपद्दुष्टचेतसम्॥ 3-10-32 Duryodhana offends Sage Maitreya
यस्मात्त्वं मामनादृत्य नेमां वाचं चिकीर्षसि। तस्मादस्याभिमानस्य सद्यः फलमवाप्नुहि॥ 3-10-33 त्वदभिद्रोहसंयुक्तं युद्धमुत्पत्स्यते महत्। तत्र भीमो गदाघातैस्तवोरुं भेत्स्यते बली॥ 3-10-34 इत्येवमुक्ते वचने धृतराष्ट्रो महीपतिः। प्रसादयामास मुनिं नैतदेवं भवेदिति॥ 3-10-35 मैत्रेय उवाच शमं यास्यति चेत्पुत्रस्तव राजन्यदा तदा। शापो न भविता तात विपरीते भविष्यति॥ 3-10-36 Sage Maitreya curses Duryodhana
वैशम्पायन उवाच
विलक्षयंस्तु राजेन्द्रो दुर्योधनपिता तदा। मैत्रेयं प्राह किर्मीरः कथं भीमेन पातितः॥ 3-10-37 मैत्रेय उवाच नाहं वक्ष्यामि ते भूयो न ते शुश्रूषते सुतः। एष ते विदुरः सर्वमाख्यास्यति गते मयि॥ 3-10-38 वैशम्पायन उवाच इत्येवमुक्त्वा मैत्रेयः प्रातिष्ठत यथाऽऽगतम्। किर्मीरवधसंविग्नो बहिर्दुर्योधनो ययौ॥ 3-10-39 Death of Kirmira
इति श्रीमहाभारते वनपर्वणि अरण्यपर्वणि मैत्रेयशापे दशमोऽध्यायः॥ 10 ॥