Difference between revisions of "Vanaparva Adhyaya 2 (वनपर्वणि अध्यायः २)"
Jump to navigation
Jump to search
(tagging) |
m |
||
Line 14: | Line 14: | ||
अनुकम्पां हि भक्तेषु देवता ह्यपि कुर्वते। | अनुकम्पां हि भक्तेषु देवता ह्यपि कुर्वते। | ||
विशेषतो ब्राह्मणेषु सदाचारावलम्बिषु॥ 3-2-6 | विशेषतो ब्राह्मणेषु सदाचारावलम्बिषु॥ 3-2-6 | ||
− | + | [[:Category:Yudhishtir - brahmans conversation|''Yudhishtir - brahmans conversation'']] [[:Category:युधिष्टीर ब्राह्मण संवाद|''युधिष्टीर ब्राह्मण संवाद'']] | |
− | + | ||
− | + | युधिष्ठिर उवाच | |
− | + | ममापि परमा भक्तिर्ब्राह्मणेषु सदा द्विजाः। | |
− | + | सहायविपरिभ्रंशस्त्वयं सादयतीव माम्॥ 3-2-7 | |
− | + | आहरेयुरिमे येऽपि फलमूलमृगांस्तथा[मधूनि च]। | |
− | + | त इमे शोकजैर्दुःखैर्भ्रातरो मे विमोहिताः॥ 3-2-8 | |
− | + | द्रौपद्या विप्रकर्षेण राज्यापहरणेन च। | |
+ | दुःखार्दितानिमान्क्लेशैर्नाहं योक्तुमिहोत्सहे॥ 3-2-9 | ||
+ | [[:Category:Yudhishtir - brahmans conversation|''Yudhishtir - brahmans conversation'']] [[:Category:युधिष्टीर ब्राह्मण संवाद|''युधिष्टीर ब्राह्मण संवाद'']] [[:Category:Sadness|''Sadness'']] [[:Category:दु:ख|''दु:ख'']] [[:Category:शोक|''शोक'']] | ||
+ | |||
ब्राह्मणा ऊचुः | ब्राह्मणा ऊचुः | ||
अस्मत्पोषणजा चिन्ता मा भूत्ते हृदि पार्थिव। | अस्मत्पोषणजा चिन्ता मा भूत्ते हृदि पार्थिव। |
Revision as of 17:39, 10 July 2019
वैशम्पायन उवाच प्रभातायां तु शर्वर्यां तेषामक्लिष्टकर्मणाम्। वनं यियासतां विप्रास्तस्थुर्भिक्षाभुजोऽग्रतः॥ 3-2-1 तानुवाच ततो राजा कुन्तीपुत्रो युधिष्ठिरः। वयं हि हृतसर्वस्वा हृतराज्या हृतश्रियः॥ 3-2-2 फलमूलाशनाहारा वनं गच्छाम दुःखिताः। वनं च दोषबहुलं बहुव्यालसरीसृपम्॥ 3-2-3 परिक्लेशश्च वो मन्ये ध्रुवं तत्र भविष्यति। ब्राह्मणानां परिक्लेशो दैवतान्यपि सादयेत्। किं पुनर्मामितो विप्रा निवर्तध्वं यथेष्टतः॥ 3-2-4 ब्राह्मणा ऊचुः गतिर्या भवतां राजंस्तां वयं गन्तुमुद्यताः। नार्हस्यस्मान्परित्यक्तुं भक्तान्सद्धर्मदर्शिनः॥ 3-2-5 अनुकम्पां हि भक्तेषु देवता ह्यपि कुर्वते। विशेषतो ब्राह्मणेषु सदाचारावलम्बिषु॥ 3-2-6 Yudhishtir - brahmans conversation युधिष्टीर ब्राह्मण संवाद युधिष्ठिर उवाच ममापि परमा भक्तिर्ब्राह्मणेषु सदा द्विजाः। सहायविपरिभ्रंशस्त्वयं सादयतीव माम्॥ 3-2-7 आहरेयुरिमे येऽपि फलमूलमृगांस्तथा[मधूनि च]। त इमे शोकजैर्दुःखैर्भ्रातरो मे विमोहिताः॥ 3-2-8 द्रौपद्या विप्रकर्षेण राज्यापहरणेन च। दुःखार्दितानिमान्क्लेशैर्नाहं योक्तुमिहोत्सहे॥ 3-2-9 Yudhishtir - brahmans conversation युधिष्टीर ब्राह्मण संवाद Sadness दु:ख शोक
ब्राह्मणा ऊचुः अस्मत्पोषणजा चिन्ता मा भूत्ते हृदि पार्थिव। स्वयमाहृत्य चान्नानि चोपयोक्षा[त्वानुयास्या]महे वयम्॥ 3-2-10 अनुध्यानेन जप्येन विधास्यामः शिवं तव। कथाभिश्चाभिरम्याभिः सह रंस्यामहे वयम्॥ 3-2-11 युधिष्ठिर उवाच एवमेतन्न सन्देहो रमेऽहं सततं द्विजैः। मा[न्यू]नभावात्तु पश्यामि प्रत्यादेशमिवात्मनः॥ 3-2-12 कथं द्रक्ष्यामि वः सर्वान्स्वयमाहृतभोजनान्। मद्भक्त्या क्लिश्यतोऽनर्हान्धिक्पापान्धृतराष्ट्रजान्॥ 3-2-13 Yudhishtir - brahmans conversation युधिष्टीर ब्राह्मण संवाद
वैशम्पायन उवाच
इत्युक्त्वा स नृपः शोचन्निषसाद महीतले।
तमध्यात्मरतो विद्वान्शौनको नाम वै द्विजः।
योगे सांख्ये च कुशलो राजानमिदमब्रवीत्॥ 3-2-14
शोकस्थानसहस्राणि भयस्थानशतानि च। दिवसे दिवसे मूढमाविशन्ति न पण्डितम्॥ 3-2-15 न हि ज्ञानविरुद्धेषु बहुदोषेषु कर्मसु। श्रेयोघातिषु सज्जन्ते बुद्धिमन्तो भवद्विधाः॥ 3-2-16 अष्टाङ्गां बुद्धिमाहुर्यां सर्वाश्रेयोऽभिघातिनीम्। श्रुतिस्मृतिसमायुक्तां राजन्सा त्वय्यवस्थिता॥ 3-2-17 अर्थकृच्छ्रेषु दुर्गेषु व्यापत्सु स्वजनस्य च। शारीरमानसैर्दुःखैर्न सीदन्ति भवद्विधाः॥ 3-2-18 Description of a knowledgeable person ज्ञानी जनस्य वर्णनं
श्रूयतां चाभिधास्यामि जनकेन यथा पुरा।
आत्मव्यवस्थानकरा गीताः श्लोका महात्मना॥ 3-2-19
मनोदेहसमुत्थाभ्यां दुःखाभ्यामर्दितं जगत्। तयोर्व्याससमासाभ्यां शमोपायमिमं शृणु॥ 3-2-20 व्याधेरनिष्टसंस्पर्शाच्छ्रमादिष्टविवर्जनात्। दुःखं चतुर्भिः शारीरं कारणैः सम्प्रवर्तते॥ 3-2-21 तदा तत्प्रतिकाराच्च सततं चाविचिन्तनात्। आधिव्याधिप्रशमनं क्रियायोगद्वयेन तु॥ 3-2-22 मतिमन्तो ह्यतो वैद्याः शमं प्रागेव कुर्वते। मानसस्य प्रियाख्यानैः सम्भोगोपनयैर्नृणाम्॥ 3-2-23 solution to overcome sadness
मानसेन हि दुःखेन शरीरमुपतप्यते। अयःपिण्डेन तप्तेन कुम्भसंस्थमिवोदकम्॥ 3-2-24 मानसं शमयेत्तस्माज्ज्ञानेनाग्निमिवाम्बुना। प्रशान्ते मानसे ह्यस्य शारीरमुपशाम्यति॥ 3-2-25 connection between physical and mental health
मनसो दुःखमूलं तु स्नेह इत्युपलभ्यते। स्नेहात्तु सज्जते जन्तुर्दुःखयोगमुपैति च॥ 3-2-26 स्नेहमूलानि दुःखानि स्नेहजानि भयानि च। शोकहर्षौ तथाऽऽयासः सर्वं स्नेहात्प्रवर्तते॥ 3-2-27 स्नेहाद्भावोऽनुरागश्च प्रजज्ञे विषये तथा। अश्रेयस्कावुभावेतौ पूर्वस्तत्र गुरुः स्मृतः॥ 3-2-28 कोटराग्निर्यथाशेषं समूलं पादपं दहेत्। धर्मार्थौ तु तथाल्पोऽपि रागदोषो विनाशयेत्॥ 3-2-29 attachment आसक्ती
विप्रयोगे न तु त्यागी दोषदर्शी समागमे। विरागं भजते जन्तुर्निर्वैरो निरवग्रहः॥ 3-2-30 detachment त्याग
तस्मात्स्नेहं न लिप्सेत मित्रेभ्यो धनसञ्चयात्। स्वशरीरसमुत्थं च ज्ञानेन विनिवर्तयेत्॥ 3-2-31 ज्ञानान्वितेषु युक्तेषु शास्त्रज्ञेषु कृतात्मसु। न तेषु सज्जते स्नेहः पद्मपत्रेष्विवोदकम्॥ 3-2-32 attachment आसक्ती
रागाभिभूतः पुरुषः कामेन परिकृष्यते। इच्छा सञ्जायते तस्य ततस्तृष्णा विवर्धते॥ 3-2-33 तृष्णा हि सर्वपापिष्ठा नित्योद्वेगकरी स्मृता। अधर्मबहुला चैव घोरा पापानुबन्धिनी॥ 3-2-34 या दुस्त्यजा दुर्मतिभिर्या न जीर्यति जीर्यतः। योऽसौ प्राणान्तिको रोगस्तां तृष्णां त्यजतः सुखम्॥ 3-2-35 अनाद्यन्ता तु सा तृष्णा अन्तर्देहगता नृणाम्। विनाशयति भूतानि अयोनिज इवानलः॥ 3-2-36 यथैधः स्वसमुत्थेन वह्निना नाशमृच्छति। तथाकृतात्मा लोभेन सहजेन विनश्यति॥ 3-2-37 anarthas अनर्थ
राजतः सलिलादग्नेश्चोरतः स्वजनादपि। भयमर्थवतां नित्यं मृत्योः प्राणभृतामिव॥ 3-2-38 यथा ह्यामिषमाकाशे पक्षिभिः श्वापदैर्भुवि। भक्ष्यते सलिले मत्स्यैस्तथा सर्वत्र वित्तवान्॥ 3-2-39 अर्थ एव हि केषाञ्चिदनर्थं भजते नृणाम्। अर्थश्रेयसि चासक्तो च श्रेयो विन्दते नरः॥ 3-2-40 तस्मादर्थागमाः सर्वे मनोमोहविवर्धनाः। कार्पण्यं दर्पमानौ च भयमुद्वेग एव च॥ 3-2-41 अर्थजानि विदुः प्राज्ञा दुःखान्येतानि देहिनाम्। अर्थस्योत्पादने चैव पालने च तथा क्षये॥ 3-2-42 सहन्ति च महद्दुःखं घ्नन्ति चैवार्थकारणात्। अर्था दुःखं परित्यक्तुं पालिताश्चैव शत्रवः॥ 3-2-43 दुःखेन चाधिगम्यन्ते तस्मान्नाशं न चिन्तयेत्। असन्तोषपरा मूढाः सन्तोषं यान्ति पण्डिताः॥ 3-2-44 अन्तो नास्ति पिपासायाः सन्तोषः परमं सुखम्। तस्मात्सन्तोषमेवेह परं पश्यन्ति पण्डिताः॥ 3-2-45 अनित्यं यौवनं रूपं जीवितं रत्नसंचयः। ऐश्वर्यं प्रियसंवासो गृध्येत्तत्र न पण्डितः॥ 3-2-46 त्यजेत सञ्चयांस्तस्मात्तज्जान्क्लेशान्सहेत च। न हि सञ्चयवान्कश्चिद्दृश्यते निरुपद्रवः। अतश्च धार्मिकैः पुंभिरनीहार्थः प्रशस्यते॥ 3-2-47 धर्मार्थं यस्य वित्तेहा वरं तस्य निरीहता। प्रक्षालनाद्धि पङ्कस्य श्रेयो न स्पर्शनं नृणाम्॥ 3-2-48 युधिष्ठिरैवं सर्वेषु न स्पृहां कर्तुमर्हसि। धर्मेण यदि ते कार्यं विमुक्तेच्छो भवार्थतः॥ 3-2-49 Disadvantages of being wealthy धन दोष
युधिष्ठिर उवाच नार्थोपभोगलिप्सार्थमियमर्थेप्सुता मम। भरणार्थं तु विप्राणां ब्रह्मन्काङ्क्षे न लोभतः॥ 3-2-50 कथं ह्यस्मद्विधो ब्रह्मन्वर्तमानो गृहाश्रमे। भरणं पालनं चापि न कुर्यादनुयायिनाम्॥ 3-2-51 संविभागो हि भूतानां सर्वेषामेव दृश्यते। तथैवापचमानेभ्यः प्रदेयं गृहमेधिना॥ 3-2-52 तृणानि भूमिरुदकं वाक्चतुर्थी च सूनृता। सतामेतानि गेहेषु नोच्छिद्यन्ते कदाचन॥ 3-2-53 देयमार्तस्य शयनं स्थितश्रान्तस्य चासनम्। तृषितस्य च पानीयं क्षुधितस्य च भोजनम्॥ 3-2-54 चक्षुर्दद्यान्मनो दद्याद्वाचं दद्यात्सुभाषिताम्। उत्थाय चासनं दद्यादेष धर्मः सनातनः। रत्युत्थायाभिगमनं कुर्यान्न्यायेन चार्चनम्॥ 3-2-55 Sanatan dharma सनातन धर्म अग्निहोत्रमनड्वांश्च ज्ञातयोऽतिथिबान्धवाः। पुत्रा दाराश्च भृत्याश्च निर्दहेयुरपूजिताः॥ 3-2-56 आत्मार्थं पाचयेन्नान्नं न वृथा घातयेत्पशून्। न च तत्स्वयमश्नीयाद्विधिवद्यन्न निर्वपेत्॥ 3-2-57 श्वभ्यश्च श्वपचेभ्यश्च वयोभ्यश्चावपेद्भुवि। वैश्वदेवं हि नामैतत्सायं प्रातश्च दीयते॥ 3-2-58 विघसाशी भवेत्तस्मान्नित्यं चामृतभोजनः। विघसो भुक्तशेषं तु यज्ञशेषं तथामृतम्॥ 3-2-59 चक्षुर्दद्यान्मनो दद्याद्वाचं दद्याच्च सूनृताम्। अनुव्रजेदुपासीत स यज्ञः पञ्चदक्षिणः॥ 3-2-60 यो दद्यादपरिक्लिष्टमन्नमध्वनि वर्तते। श्रान्तायादृष्टपूर्वाय तस्य पुण्यफलं महत्॥ 3-2-61 एवं यो वर्तते वृत्तिं वर्तमानो गृहाश्रमे। तस्य धर्मं परं प्राहुः कथं वा विप्र मन्यसे॥ 3-2-62 Duties of a householder गृहस्थ धर्म
शौनक उवाच अहो बत महत्कष्टं विपरीतमिदं जगत्। येनापत्रपते साधुरसाधुस्तेन तुष्यति॥ 3-2-63 शिश्नोदरकृतेऽप्राज्ञः करोति विघसं बहु। मोहरागवशाक्रान्त इन्द्रियार्थवशानुगः॥ 3-2-64 ह्रियते बुध्यमानोऽपि नरो हारिभिरिन्द्रियैः। विमूढसंज्ञो दुष्टाश्वैरुद्भान्तैरिव सारथिः॥ 3-2-65 षडिन्द्रियाणि विषयं समागच्छन्ति वै यदा। तदा प्रादुर्भवत्येषां पूर्वसङ्कल्पजं मनः॥ 3-2-66 मनो यस्येन्द्रियस्येह विषयान्याति सेवितुम्। तस्यौत्सुक्यं सम्भवति प्रवृत्तिश्चोपजायते॥ 3-2-67 ततः सङ्कल्पबीजेन कामेन विषयेषुभिः। विद्धः पतति लोभाग्नौ ज्योतिर्लोभात्पतङ्गवत्॥ 3-2-68 ततो विहारैराहारैर्मोहितश्च यथेप्सया। महामोहे सुखे मग्नो नात्मानमवबुध्यते॥ 3-2-69 एवं पतति संसारे तासु तास्विह योनिषु। अविद्याकर्मतृष्णाभिर्भ्राम्यमाणोऽथ चक्रवत्॥ 3-2-70 ब्रह्मादिषु तृणान्तेषु भूतेषु परिवर्तते। जले भुवि तथाऽऽकाशे जायमानः पुनः पुनः॥ 3-2-71 consequences of sense gratification इंद्रिय तृप्ति अविवेकी पुरुषोकी गती
अबुधानां गतिस्त्वेषा बुधानामपि मे शृणु। ये धर्मे श्रेयसि रता विमोक्षरतयो जनाः॥ 3-2-72 तदिदं वेदवचनं कुरु कर्म त्यजेति च। तस्माद्धर्मानिमान्सर्वान्नाभिमानात्समाचरेत्॥ 3-2-73 इज्याध्ययनदानानि तपः सत्यं क्षमा दमः। अलोभ इति मार्गोऽयं धर्मस्याष्टविधः स्मृतः॥ 3-2-74 अत्र पूर्वश्चतुर्वर्गः पितृयाणपथे स्थितः। कर्तव्यमिति यत्कार्यं नाभिमानात्समाचरेत्॥ 3-2-75 उत्तरो देवयानस्तु सद्भिराचरितः सदा। अष्टाङ्गेनैव मार्गेण विशुद्धात्मा समाचरेत्॥ 3-2-76 सम्यक्सङ्कल्पसम्बन्धात्सम्यक्चेन्द्रियनिग्रहात्। सम्यग्व्रतविशेषाच्च सम्यक्च गुरुसेवनात्॥ 3-2-77 सम्यगाहारयोगाच्च सम्यक्चाध्ययनागमात्। सम्यक्कर्मोपसन्न्यासात्सम्यक्चित्तनिरोधनात्॥ 3-2-78 एवं कर्माणि कुर्वन्ति संसारविजिगीषवः। रागद्वेषविनिर्मुक्ता ऐश्वर्यं देवता गताः॥ 3-2-79 रुद्राः साध्यास्तथाऽऽदित्या वसवोऽथ तथाश्विनौ। योगैश्वर्येण संयुक्ता धारयन्ति प्रजा इमाः॥ 3-2-80 Righteousness धर्म विवेकी पुरुषोकी गती
तथा त्वमपि कौन्तेय शममास्थाय पुष्कलम्। तपसा सिद्धिमन्विच्छ योगसिद्धिं च भारत॥ 3-2-81 पितृमातृमयी सिद्धिः प्राप्ता कर्ममयी च ते। तपसा सिद्धिमन्विच्छ द्विजानां भरणाय वै॥ 3-2-82 सिद्धा हि यद्यदिच्छन्ति कुर्वते तदनुग्रहात्। तस्मात्तपः समास्थाय कुरुष्वात्ममनोरथम्॥ 3-2-83 Penance तपस्या
इति श्रीमहाभारते वनपर्वणि अरण्यपर्वणि पाण्डवानां प्रव्रजने द्वितीयोऽध्यायः॥ 2 ॥