Line 1: |
Line 1: |
| Samavaya is one of the 6 padarthas described in Ayurveda. The term samavaya refers to union or combination. It indicates perpetual co-inherence which leads to development of certain exclusive attributes or activity. | | Samavaya is one of the 6 padarthas described in Ayurveda. The term samavaya refers to union or combination. It indicates perpetual co-inherence which leads to development of certain exclusive attributes or activity. |
| + | |
| + | == Samavaya as per Vaisheshika Darshana == |
| + | इहेदमिति यतः कार्यकारणयोः स समवायः । वैशेषिक-७,२.२६ । |
| + | |
| + | == Samavaya as per Tarkasamgraha == |
| + | नित्यसम्बन्धः समवायः। अयुतसिद्धवृत्तिः। ययोर्द्वयोर्मध्ये एकमविनश्यद् अपराश्रितमेवावतिष्ठते तावयुतसिद्धौ। यथा अवयवाऽवयविनौ क्रियाक्रियावन्तौ जातिव्यक्ती विशेषनित्यद्रव्ये चेति॥ ([https://sa.wikisource.org/wiki/%E0%A4%A4%E0%A4%B0%E0%A5%8D%E0%A4%95%E0%A4%B8%E0%A4%82%E0%A4%97%E0%A5%8D%E0%A4%B0%E0%A4%B9%E0%A4%83 tarkasamgraha]) |
| + | |
| + | == Samavaya as per Charaka Samhita == |
| + | समवायोऽपृथग्भावो भूम्यादीनां गुणैर्मतः| |
| + | |
| + | स नित्यो यत्र हि द्रव्यं न तत्रानियतो गुणः||५०|| (Char. Samh. Sutra 1. 50) |
| + | |
| + | |
| + | Commentary of Chakrapani- |
| + | |
| + | समवायमाह- समवाय इत्यादि| समवायस्य चायं निर्देश एव लक्षणम्| तेनोत्तरत्र द्रव्यादिलक्षणे पुनरस्य लक्षणं न कर्तव्यम्| समवाय इति लक्ष्यनिर्देशः, अपृथग्भाव इति लक्षणम्; अपृथग्भावः अयुतसिद्धिः, सहैवावस्थानमिति यावत्| यथा- अवयवावयविनोः, गुणगुणिनोः, कर्मकर्मवतोः, सामान्यसामान्यवतोः; नह्यवयवादीन् विरहय्यावयव्यादय उपलभ्यन्ते| अपृथग्भावमेव विशेषयन्नाह- भूम्यादीनां गुणैर्मत इति| भूम्यादीनां भूमिप्रकाराणां; भूमिश्च भूयसामाधेयानामाधारा, तेनाधारत्वोदाहरणार्थमुक्ता; यतो भूमेरर्थाः सर्वे गुर्वादिपराद्याश्च गुणास्तथा चावयविसामान्यक(ध)र्माण्यप्याधेयानि, नेतरद्रव्ये यथोक्तसर्वाधेयसम्पत्तिः| एतेन भूम्यादीनामित्याधाराणां, गुणैरिति अप्रधानैराधेयैः; आधेयो ह्याधारापेक्षयाऽप्रधानम्, अप्रधाने च गुणशब्दो यथा- गुणीभूतोऽयमिति, अप्रधानमित्यर्थः; तेनाधाराणामाधेयैर्योऽपृथग्भावः स समवायः इति| तेन पृथिवीत्वगन्धवत्त्वयोरपृथक्सिद्धयोरप्याधाराधेयभावाभावान्न समवाय इत्युक्तं भवति| अत एवोक्तं वैशेषिके यत्- “अयुतसिद्धानामाधार्याधारभूतानां यः सम्बन्ध इहेतिप्रत्ययहेतुः स समवायः” (प.ध.सं.द्रव्यपदार्थनिरूपण) इति| स नित्य इति समवायोऽविनाशी| सत्यपि समवायिनां द्रव्याणां [१] नाशे समवायो न विनश्यति| अत्र हेतुमाह- यत्र हीत्यादि| यत्र द्रव्यं नियतं नित्यं, यथा- आकाशं, न तत्र नित्य आकाशेऽनियतो विनाशी गुणः, ‘कश्चित्’ इति शेषः| एवं मन्यते- नित्ये व्योम्नि परिमाणमपि तावन्नित्यं, तथा [२] द्रव्यत्वमप्याकाशगतं नित्यं, तथा नित्ययोराकाशतद्गुणयोः समवायलक्षणः सम्बन्धोऽपि नित्य एव| एवं तत्र समवायस्य नित्यत्वे सिद्धे एकरूपत्वात् समवायस्यान्यत्रापि नित्यत्वमेव| न चाश्रयद्रव्यनाशे [३] समवायविनाशः| यथा- गोव्यक्तिविनाशेऽपि गोत्वस्य सामान्यस्य न विनाशः| नित्यस्यैव समवायस्य ते ते पार्थिवद्रव्यादयस्तत्र तत्र व्यञ्जका भवन्ति सामान्यस्येव व्यक्तयः| अन्यैस्तु नित्यानित्यभेदेन द्विविधः समवायो व्याख्यातः; अयं च ग्रन्थो भूम्यादीनां गुणैरेव यः सम्बन्धस्तस्यैव यथाश्रुतस्य प्रतिपादक इति [४] व्याख्यातं; तत्तु न व्यापकं नापि वैशेषिकमतानुयायीति नेह प्रपञ्चितम्||५०|| |
| + | |
| + | == Samavaya as Vadamargapada == |
| + | Charaka Samhita Vimanasthanam Adhyaya 8 Sutra 27 |
| + | |
| + | Samavaya has been included under the wadamargas by Acharya Charaka. |