Difference between revisions of "1.1 Introduction to Mathematics (गणितस्य परिचयः)"

From Dharmawiki
Jump to navigation Jump to search
(Adding images and content)
(format change)
 
(2 intermediate revisions by the same user not shown)
Line 1: Line 1:
== अध्ययन-हतवः || Learning Objectives ==
+
== अध्ययन-हेतवः || Learning Objectives ==
 
# गणितस्य अर्थः महत्त्वं च ।
 
# गणितस्य अर्थः महत्त्वं च ।
 
# लीलावती-ग्रन्थस्य मङ्गलाचरणम् ।
 
# लीलावती-ग्रन्थस्य मङ्गलाचरणम् ।
Line 9: Line 9:
 
गण्यते इति गणितम् उच्यते । अतः गणितं नाम गणना-शस्त्रम् । गणित-शब्दः पुरातनः अस्ति । तथा च, वेदेषु तस्य उपयोगः प्रचुरत्वेन दृष्यते । प्रचीनकाले खगोलशास्त्रम् (नाम ज्योतिःशास्त्रम्) अपि गणिते एव समाविष्टः भवति स्म । अनन्तरकाले तस्य अध्ययनं पृथक् अभवत् ।  
 
गण्यते इति गणितम् उच्यते । अतः गणितं नाम गणना-शस्त्रम् । गणित-शब्दः पुरातनः अस्ति । तथा च, वेदेषु तस्य उपयोगः प्रचुरत्वेन दृष्यते । प्रचीनकाले खगोलशास्त्रम् (नाम ज्योतिःशास्त्रम्) अपि गणिते एव समाविष्टः भवति स्म । अनन्तरकाले तस्य अध्ययनं पृथक् अभवत् ।  
  
वेदाङ्गज्योतिष् नाम्नि ग्रन्थे आचार्य-लगाधेन षट्सु शास्त्रेषु नाम वेदाङ्गेषु गणितम् उन्नततमं स्थानं प्रदत्तम् । <blockquote>यथा शिखा मयूराणां नागानां मणयो यथा । </blockquote><blockquote>तद्वद्वेदाङ्गशास्त्राणां ज्योतिषं (गणितं) मूर्धनि स्थितम् ॥ १९ ॥ (Veda. Jyot. 4) </blockquote>अर्थः - यथा मयूराणां शिखा मूर्धनि स्थिता, यथा च नागानां मणयः मूर्धनि स्थिताः, तथैव वेदाङ्गशात्राणां वेदाङ्गशास्त्रेषु वा गणतं मूर्धनि स्थितं नाम प्रधानत्वेन तष्ठति इति । '''(Illustration Required)'''
+
वेदाङ्गज्योतिष् नाम्नि ग्रन्थे आचार्य-लगाधेन षट्सु शास्त्रेषु नाम वेदाङ्गेषु गणितम् उन्नततमं स्थानं प्रदत्तम् । <blockquote>यथा शिखा मयूराणां नागानां मणयो यथा । </blockquote><blockquote>तद्वद्वेदाङ्गशास्त्राणां ज्योतिषं (गणितं) मूर्धनि स्थितम् ॥ १९ ॥ (Veda. Jyot. 4<ref>''Yajus Jyotisham (Vedanga Jyotisa) by Lagadha'' ([https://insa.nic.in/writereaddata/UpLoadedFiles/IJHS/Vol19_3_10_SupplementVedangjyotishaofLagdha.pdf Page 27])</ref>) </blockquote>अर्थः - यथा मयूराणां शिखा मूर्धनि स्थिता, यथा च नागानां मणयः मूर्धनि स्थिताः, तथैव वेदाङ्गशात्राणां वेदाङ्गशास्त्रेषु वा गणतं मूर्धनि स्थितं नाम प्रधानत्वेन तष्ठति इति । '''(Illustration Required)'''
  
 
भारतवर्षे प्राचीनकालतः सङ्ख्याः प्रचलिताः । तासां वर्णनं प्राचीनतम-वाङ्मयेषु नाम वेदेषु दृश्यते । प्राचीन-भारतीय-गणित-शास्त्रस्य विकासे सङ्ख्यावाचकाः (एकतः नवपर्यन्तम्), सङ्ख्यास्थानमूल्यम्, शून्यस्य परिचयः इत्यादीनां विशेषसङ्कल्पनानां महत्वपूर्णं योगदानम् आसीत् । विद्यारम्भे गणित-शास्त्रस्य यथोचितं ज्ञानं प्राप्तुं भास्कराचार्यवत् प्रार्थनां कुर्मः ।
 
भारतवर्षे प्राचीनकालतः सङ्ख्याः प्रचलिताः । तासां वर्णनं प्राचीनतम-वाङ्मयेषु नाम वेदेषु दृश्यते । प्राचीन-भारतीय-गणित-शास्त्रस्य विकासे सङ्ख्यावाचकाः (एकतः नवपर्यन्तम्), सङ्ख्यास्थानमूल्यम्, शून्यस्य परिचयः इत्यादीनां विशेषसङ्कल्पनानां महत्वपूर्णं योगदानम् आसीत् । विद्यारम्भे गणित-शास्त्रस्य यथोचितं ज्ञानं प्राप्तुं भास्कराचार्यवत् प्रार्थनां कुर्मः ।
Line 25: Line 25:
 
व्याकरणादि-अन्यशास्त्रानुसारं गणितस्य नाम गणनाशास्त्रस्य प्रारम्भः अपि वैदिक-कर्माणां साहाय्यार्थमेव अभवत् | एषः एव गणितशास्त्रस्य ज्योतिःशास्त्रस्य च आरम्भः | 'मया नैकानि शास्त्राणि कलाश्च अधीतानि' इति छान्दोग्य-उपनिषदि नारद-मर्हर्षिः अवदत् | महर्षिणा नक्षत्रविद्या नाम्ना प्रसिद्धं ज्योतिःशास्त्रं राशि-विद्या नाम्ना प्रसिद्धं अङ्कगणितं च अधीतम् | '''(Image of Narada saying “I know Nakshatra-vidya” and associated picture)'''
 
व्याकरणादि-अन्यशास्त्रानुसारं गणितस्य नाम गणनाशास्त्रस्य प्रारम्भः अपि वैदिक-कर्माणां साहाय्यार्थमेव अभवत् | एषः एव गणितशास्त्रस्य ज्योतिःशास्त्रस्य च आरम्भः | 'मया नैकानि शास्त्राणि कलाश्च अधीतानि' इति छान्दोग्य-उपनिषदि नारद-मर्हर्षिः अवदत् | महर्षिणा नक्षत्रविद्या नाम्ना प्रसिद्धं ज्योतिःशास्त्रं राशि-विद्या नाम्ना प्रसिद्धं अङ्कगणितं च अधीतम् | '''(Image of Narada saying “I know Nakshatra-vidya” and associated picture)'''
  
प्राचीनकालत् जैन-आचार्यैः तथा बौद्ध-आचार्यैः अपि गणितशास्त्रस्य विकासार्थं महत् योगदानं कृतम् | सङ्ख्यान-ज्ञानं नाम अङ्कगणितेन ज्योतिःशास्त्रेण च संयुक्तं सङ्ख्यानां शास्त्रं जैनमुनीनां मुख्या सिद्धिः इति मतम् | महावीरः तस्मिन् काले श्रेष्ठः गणितज्ञः आसीत् | तस्य समीपे एतस्य विषयस्य प्रगाढं ज्ञानम् आसीत् | तेन गणितसारसङ्ग्रहः नाम्नः एकः ग्रन्थः विरचितः | अधः दत्ताः श्लोकाः गणितशास्त्रस्य उपयोगः महत्त्वं च वर्णयन्ति |<blockquote>लौकिके वैदिके वापि तथा सामायिकेऽपि यः । व्यापारस्तत्र सर्वत्र संख्यानमुपयुज्यते ।। 9</blockquote><blockquote>कामतन्त्रेऽर्थशास्त्रे च गान्धर्वे नाटकेऽपि वा । सूपशास्त्रे तथा वैद्यो वास्तुविद्यादिवस्तुषु ।। 10</blockquote><blockquote>छन्दोऽलङ्कारकाव्येषु तर्कव्याकरणादिषु । कलागुणेषु सर्वेषु प्रस्तुतं गणितं परम् ।। 11</blockquote><blockquote>सूर्यादिग्रहचारेषु ग्रहणे ग्रहसंयुतौ । त्रिप्रश्ने चन्द्रवृत्तौ च सर्वत्राङ्गीकृतं हि तत्।। 12</blockquote><blockquote>द्वीपसागरशैलानां संङ्ख्याव्यासपरिक्षिपः । भवनव्यन्तरज्योतिर्लोककल्पाधिवासिनाम् ।। 13</blockquote><blockquote>नारकाणां च सर्वेषां श्रेणीबन्धेन्द्रकोत्कराः । प्रकीर्णकप्रमाणाद्या बुध्यन्ते गणितेन ते ।। 14</blockquote><blockquote>प्राणिनां तत्र संस्थानमायुरष्टगुणादयः । यात्राद्यास्संहिताद्यश्च सर्वे ते गणिताश्रयाः।। 15</blockquote><blockquote>बहुभिर्विप्रलापैः किं त्रैलोक्ये सचराचरे । यत्किञ्चिद्वस्तु तत्सर्वं गणितेन विना न हि ।। 16 (Ganita Sarasangraha 9-16)</blockquote>सर्वेषु लौकिकेषु वैदिकेषु धार्मिकेषु वा व्यवहारेषु गणना उपयुक्ता अस्ति | कामशास्त्रे अर्थशास्त्रे सङ्गीते नाटके पाककलायां आयुर्वेदे स्थापत्ये छन्दःशास्त्रे काव्ये काव्यशास्त्रे च तर्कविद्यायां व्याकरणशास्त्रे तथा सर्वासु कलासु गणितशास्त्रस्य महत्त्वपूर्णं स्थानम् अस्ति | सूर्यस्य अन्येषां ग्रहाणां संचारे च, ग्रहणे ग्रहयुतिविषये वा, दिक्-स्थान-कालयुक्ते त्रिप्रश्नविषये, तथा चन्द्रस्य अयने गणितस्य उपयोगः भवेत् खलु | द्वीप-समुद्र-पर्वतादीनां संख्या व्यासः परिधिश्च ज्ञातुं, लोकनिवासिनां भवनपङ्क्तिं, ज्योतिर्लोकः देवलोकः नरकादिलोकानाम् मध्ये अन्तरः मातुं तथा अन्यमापनकार्यार्थं गणितस्य साहाय्यम् आवश्यमेव | प्राणिनां संस्थानं तेषाम् आयुषः दैर्घ्यम् अष्टगुणाः तेषां विकासः संयोगः वा ज्ञानं गणिताश्रितमेव | परम् एतावतः प्रलापस्य किं प्रयोजनम् ? चराचरे च त्रैलोक्ये यत्किमपि अस्ति तद् गणितेन नाम परिमाणेन गणानां विना वा न स्थातुं शक्यते |
+
प्राचीनकालत् जैन-आचार्यैः तथा बौद्ध-आचार्यैः अपि गणितशास्त्रस्य विकासार्थं महत् योगदानं कृतम् | सङ्ख्यान-ज्ञानं नाम अङ्कगणितेन ज्योतिःशास्त्रेण च संयुक्तं सङ्ख्यानां शास्त्रं जैनमुनीनां मुख्या सिद्धिः इति मतम् | महावीरः तस्मिन् काले श्रेष्ठः गणितज्ञः आसीत् | तस्य समीपे एतस्य विषयस्य प्रगाढं ज्ञानम् आसीत् | तेन गणितसारसङ्ग्रहः नाम्नः एकः ग्रन्थः विरचितः | अधः दत्ताः श्लोकाः गणितशास्त्रस्य उपयोगः महत्त्वं च वर्णयन्ति |<blockquote>लौकिके वैदिके वापि तथा सामायिकेऽपि यः । व्यापारस्तत्र सर्वत्र संख्यानमुपयुज्यते ।। 9</blockquote><blockquote>कामतन्त्रेऽर्थशास्त्रे च गान्धर्वे नाटकेऽपि वा । सूपशास्त्रे तथा वैद्यो वास्तुविद्यादिवस्तुषु ।। 10</blockquote><blockquote>छन्दोऽलङ्कारकाव्येषु तर्कव्याकरणादिषु । कलागुणेषु सर्वेषु प्रस्तुतं गणितं परम् ।। 11</blockquote><blockquote>सूर्यादिग्रहचारेषु ग्रहणे ग्रहसंयुतौ । त्रिप्रश्ने चन्द्रवृत्तौ च सर्वत्राङ्गीकृतं हि तत्।। 12</blockquote><blockquote>द्वीपसागरशैलानां संङ्ख्याव्यासपरिक्षिपः । भवनव्यन्तरज्योतिर्लोककल्पाधिवासिनाम् ।। 13</blockquote><blockquote>नारकाणां च सर्वेषां श्रेणीबन्धेन्द्रकोत्कराः । प्रकीर्णकप्रमाणाद्या बुध्यन्ते गणितेन ते ।। 14</blockquote><blockquote>प्राणिनां तत्र संस्थानमायुरष्टगुणादयः । यात्राद्यास्संहिताद्यश्च सर्वे ते गणिताश्रयाः।। 15</blockquote><blockquote>बहुभिर्विप्रलापैः किं त्रैलोक्ये सचराचरे । यत्किञ्चिद्वस्तु तत्सर्वं गणितेन विना न हि ।। 16 (Ganita Sarasangraha 9-16<ref>Rangacharya, M. (1912) ''Ganitasarasangraha of Mahaviracharya with English translation and Notes.'' Madras: The Government Press ([https://archive.org/details/RangacaryaTheGanitaSaraSangrahaOfMahavira1912/page/n35/mode/2up Page 2-3])</ref>)</blockquote>सर्वेषु लौकिकेषु वैदिकेषु धार्मिकेषु वा व्यवहारेषु गणना उपयुक्ता अस्ति | कामशास्त्रे अर्थशास्त्रे सङ्गीते नाटके पाककलायां आयुर्वेदे स्थापत्ये छन्दःशास्त्रे काव्ये काव्यशास्त्रे च तर्कविद्यायां व्याकरणशास्त्रे तथा सर्वासु कलासु गणितशास्त्रस्य महत्त्वपूर्णं स्थानम् अस्ति | सूर्यस्य अन्येषां ग्रहाणां संचारे च, ग्रहणे ग्रहयुतिविषये वा, दिक्-स्थान-कालयुक्ते त्रिप्रश्नविषये, तथा चन्द्रस्य अयने गणितस्य उपयोगः भवेत् खलु | द्वीप-समुद्र-पर्वतादीनां संख्या व्यासः परिधिश्च ज्ञातुं, लोकनिवासिनां भवनपङ्क्तिं, ज्योतिर्लोकः देवलोकः नरकादिलोकानाम् मध्ये अन्तरः मातुं तथा अन्यमापनकार्यार्थं गणितस्य साहाय्यम् आवश्यमेव | प्राणिनां संस्थानं तेषाम् आयुषः दैर्घ्यम् अष्टगुणाः तेषां विकासः संयोगः वा ज्ञानं गणिताश्रितमेव | परम् एतावतः प्रलापस्य किं प्रयोजनम् ? चराचरे च त्रैलोक्ये यत्किमपि अस्ति तद् गणितेन नाम परिमाणेन गणानां विना वा न स्थातुं शक्यते |
  
 
आचार्यः महावीरः वदति, 'यथा समुद्रात् रत्नानि प्राप्यन्ते पाषाणात् सुवर्णं शुक्तिकायाः मुक्ताफलानि च प्राप्यन्ते तथैव जगदीश्वरैः पूज्यानां स्तिथप्रज्ञानां जैनमुनीनां साहाय्येन तेषां शिष्यपरम्परायाः साहाय्येन च अहं सङ्ख्याज्ञानसमुद्रात् किञ्चित् उद्धृत्य साररूपेण स्वमत्यनुसारं गणितसारसङ्ग्रहं नाम्नः लघु-ग्रन्थं रचयामि यस्य अर्थः तु अनल्पः नाम महान् अस्ति' | इति
 
आचार्यः महावीरः वदति, 'यथा समुद्रात् रत्नानि प्राप्यन्ते पाषाणात् सुवर्णं शुक्तिकायाः मुक्ताफलानि च प्राप्यन्ते तथैव जगदीश्वरैः पूज्यानां स्तिथप्रज्ञानां जैनमुनीनां साहाय्येन तेषां शिष्यपरम्परायाः साहाय्येन च अहं सङ्ख्याज्ञानसमुद्रात् किञ्चित् उद्धृत्य साररूपेण स्वमत्यनुसारं गणितसारसङ्ग्रहं नाम्नः लघु-ग्रन्थं रचयामि यस्य अर्थः तु अनल्पः नाम महान् अस्ति' | इति
Line 80: Line 80:
 
# 'जन्तर-मन्तर' विषये अन्येषां दिगवलोकनप्रासादानां विषये च अधिकं ज्ञानं प्राप्नोतु |
 
# 'जन्तर-मन्तर' विषये अन्येषां दिगवलोकनप्रासादानां विषये च अधिकं ज्ञानं प्राप्नोतु |
 
# यत्र कुट्टिमे प्रधानकक्षायां भित्तिकासु च प्रतिरूपाणि दृष्यन्ते तस्य ऐतिहासिक-पूजास्थानस्य शासन-भवनस्य दुर्गस्य वा द्वे चित्रे सङ्गृह्णातु |
 
# यत्र कुट्टिमे प्रधानकक्षायां भित्तिकासु च प्रतिरूपाणि दृष्यन्ते तस्य ऐतिहासिक-पूजास्थानस्य शासन-भवनस्य दुर्गस्य वा द्वे चित्रे सङ्गृह्णातु |
 +
 +
== See Also ==
 +
[[Introduction to Mathematics (English)]]
 +
 +
== References ==
 +
<references />

Latest revision as of 12:29, 14 April 2021

अध्ययन-हेतवः || Learning Objectives

  1. गणितस्य अर्थः महत्त्वं च ।
  2. लीलावती-ग्रन्थस्य मङ्गलाचरणम् ।
  3. गणितस्य दैनन्दिने व्यवहारे मूल्यम् - गणितसारसङ्ग्रहः ।
  4. आश्चर्यकारकाः प्राचीनगणित-आविष्काराः ।
  5. अनुभवात्मक-कृतयः ।

परिचयः ॥ Introduction

गण्यते इति गणितम् उच्यते । अतः गणितं नाम गणना-शस्त्रम् । गणित-शब्दः पुरातनः अस्ति । तथा च, वेदेषु तस्य उपयोगः प्रचुरत्वेन दृष्यते । प्रचीनकाले खगोलशास्त्रम् (नाम ज्योतिःशास्त्रम्) अपि गणिते एव समाविष्टः भवति स्म । अनन्तरकाले तस्य अध्ययनं पृथक् अभवत् ।

वेदाङ्गज्योतिष् नाम्नि ग्रन्थे आचार्य-लगाधेन षट्सु शास्त्रेषु नाम वेदाङ्गेषु गणितम् उन्नततमं स्थानं प्रदत्तम् ।

यथा शिखा मयूराणां नागानां मणयो यथा ।

तद्वद्वेदाङ्गशास्त्राणां ज्योतिषं (गणितं) मूर्धनि स्थितम् ॥ १९ ॥ (Veda. Jyot. 4[1])

अर्थः - यथा मयूराणां शिखा मूर्धनि स्थिता, यथा च नागानां मणयः मूर्धनि स्थिताः, तथैव वेदाङ्गशात्राणां वेदाङ्गशास्त्रेषु वा गणतं मूर्धनि स्थितं नाम प्रधानत्वेन तष्ठति इति । (Illustration Required)

भारतवर्षे प्राचीनकालतः सङ्ख्याः प्रचलिताः । तासां वर्णनं प्राचीनतम-वाङ्मयेषु नाम वेदेषु दृश्यते । प्राचीन-भारतीय-गणित-शास्त्रस्य विकासे सङ्ख्यावाचकाः (एकतः नवपर्यन्तम्), सङ्ख्यास्थानमूल्यम्, शून्यस्य परिचयः इत्यादीनां विशेषसङ्कल्पनानां महत्वपूर्णं योगदानम् आसीत् । विद्यारम्भे गणित-शास्त्रस्य यथोचितं ज्ञानं प्राप्तुं भास्कराचार्यवत् प्रार्थनां कुर्मः ।

मङ्गलाचरणम् ।

लीलावती नाम भास्कराचार्येण जगते प्रदत्तं सर्वश्रेष्ठं गणितीय-योगदानं वर्तते | तेन हि दैनन्दिनव्यवहारेषु परिचितानां सरलानां उदाहरणानां साहाय्येन छात्राः प्रमोदेन गणनाम् अध्येतुं शक्नुवन्ति | ऋषिभिः गुरुभिश्च यथा विहितं तदनुसृत्य कार्यारम्भात् प्राक् कार्ये अस्माकं देवतानां मार्गदर्शनं स्यात् इत्यर्थं तासां मङ्गलाचरणेन प्रार्थनां कुर्मः | अतः भास्कराचार्येण लीलावती-ग्रन्थे समर्पितां प्रार्थनां पठामः |

प्रीतिं भक्तजनस्य यो जनयते विघ्नं विनिघ्नन् स्मृत-

स्तं वृन्दारकवृन्दवन्दितपदं नत्वा मतङ्गाननम् ।

पाटीं सद्गणितस्य वच्मि चतुरप्रीतिप्रदां प्रस्फुटां

सङ्क्षिप्ताक्षरकोमलामलपदैर्लालित्यलीलावतीम् ।। (शार्दूलविक्रीडितम् लीला. 1.1)

यस्य चरणः देवगणैः पूजितः । स्मृते सति यः भक्तानां विघ्नं हरति आनन्दं च कारयति । तं गजाननं नमस्कृत्य अङ्कगणितस्य विषये लीलावती नाम्नः अल्पाक्षरैः मृदुलैः शुद्धैश्च पदैः संयुक्तं एकं स्पष्टं रमणीयं च ग्रन्थं ब्रवीमि (रचयामि) यः बुद्धिमतः आनन्दप्रदायकं वर्तते | (Illustration Required for following place-holder)

लीलावती-ग्रन्थस्य प्रथमे श्लोके भास्कराचार्यः विघ्नेशं नमति |

भारतीय-परम्पराम् अनुसृत्य भास्कराचार्यः लीलावती-ग्रन्थस्य प्रारम्भः अनेन मङ्गलाचरणश्लोकेन करोति | अस्मिन् श्लोके आचार्यः ग्रन्थस्य परिपूर्त्यर्थं विघ्नहर्तारं प्रथमपूज्यं च गणेशं प्रार्थयते | एतदपि कथयति यत् एषः ग्रन्थः अङ्कगणित-विषयकः मनोहरः सुगम्य-रीत्या च लिखितः अस्ति इति |

गणितस्य स्थानम् |

गणितस्य अभ्यासः नाम सङ्ख्यानाम् अवगमनं,तेषां गणना परिकर्माणि च | गणितं बुद्धेः जागरणार्थं संवर्धनार्थं च साहाय्यं करोति | तेन परिसरज्ञानस्य क्षमता वर्धते |

व्याकरणादि-अन्यशास्त्रानुसारं गणितस्य नाम गणनाशास्त्रस्य प्रारम्भः अपि वैदिक-कर्माणां साहाय्यार्थमेव अभवत् | एषः एव गणितशास्त्रस्य ज्योतिःशास्त्रस्य च आरम्भः | 'मया नैकानि शास्त्राणि कलाश्च अधीतानि' इति छान्दोग्य-उपनिषदि नारद-मर्हर्षिः अवदत् | महर्षिणा नक्षत्रविद्या नाम्ना प्रसिद्धं ज्योतिःशास्त्रं राशि-विद्या नाम्ना प्रसिद्धं अङ्कगणितं च अधीतम् | (Image of Narada saying “I know Nakshatra-vidya” and associated picture)

प्राचीनकालत् जैन-आचार्यैः तथा बौद्ध-आचार्यैः अपि गणितशास्त्रस्य विकासार्थं महत् योगदानं कृतम् | सङ्ख्यान-ज्ञानं नाम अङ्कगणितेन ज्योतिःशास्त्रेण च संयुक्तं सङ्ख्यानां शास्त्रं जैनमुनीनां मुख्या सिद्धिः इति मतम् | महावीरः तस्मिन् काले श्रेष्ठः गणितज्ञः आसीत् | तस्य समीपे एतस्य विषयस्य प्रगाढं ज्ञानम् आसीत् | तेन गणितसारसङ्ग्रहः नाम्नः एकः ग्रन्थः विरचितः | अधः दत्ताः श्लोकाः गणितशास्त्रस्य उपयोगः महत्त्वं च वर्णयन्ति |

लौकिके वैदिके वापि तथा सामायिकेऽपि यः । व्यापारस्तत्र सर्वत्र संख्यानमुपयुज्यते ।। 9

कामतन्त्रेऽर्थशास्त्रे च गान्धर्वे नाटकेऽपि वा । सूपशास्त्रे तथा वैद्यो वास्तुविद्यादिवस्तुषु ।। 10

छन्दोऽलङ्कारकाव्येषु तर्कव्याकरणादिषु । कलागुणेषु सर्वेषु प्रस्तुतं गणितं परम् ।। 11

सूर्यादिग्रहचारेषु ग्रहणे ग्रहसंयुतौ । त्रिप्रश्ने चन्द्रवृत्तौ च सर्वत्राङ्गीकृतं हि तत्।। 12

द्वीपसागरशैलानां संङ्ख्याव्यासपरिक्षिपः । भवनव्यन्तरज्योतिर्लोककल्पाधिवासिनाम् ।। 13

नारकाणां च सर्वेषां श्रेणीबन्धेन्द्रकोत्कराः । प्रकीर्णकप्रमाणाद्या बुध्यन्ते गणितेन ते ।। 14

प्राणिनां तत्र संस्थानमायुरष्टगुणादयः । यात्राद्यास्संहिताद्यश्च सर्वे ते गणिताश्रयाः।। 15

बहुभिर्विप्रलापैः किं त्रैलोक्ये सचराचरे । यत्किञ्चिद्वस्तु तत्सर्वं गणितेन विना न हि ।। 16 (Ganita Sarasangraha 9-16[2])

सर्वेषु लौकिकेषु वैदिकेषु धार्मिकेषु वा व्यवहारेषु गणना उपयुक्ता अस्ति | कामशास्त्रे अर्थशास्त्रे सङ्गीते नाटके पाककलायां आयुर्वेदे स्थापत्ये छन्दःशास्त्रे काव्ये काव्यशास्त्रे च तर्कविद्यायां व्याकरणशास्त्रे तथा सर्वासु कलासु गणितशास्त्रस्य महत्त्वपूर्णं स्थानम् अस्ति | सूर्यस्य अन्येषां ग्रहाणां संचारे च, ग्रहणे ग्रहयुतिविषये वा, दिक्-स्थान-कालयुक्ते त्रिप्रश्नविषये, तथा चन्द्रस्य अयने गणितस्य उपयोगः भवेत् खलु | द्वीप-समुद्र-पर्वतादीनां संख्या व्यासः परिधिश्च ज्ञातुं, लोकनिवासिनां भवनपङ्क्तिं, ज्योतिर्लोकः देवलोकः नरकादिलोकानाम् मध्ये अन्तरः मातुं तथा अन्यमापनकार्यार्थं गणितस्य साहाय्यम् आवश्यमेव | प्राणिनां संस्थानं तेषाम् आयुषः दैर्घ्यम् अष्टगुणाः तेषां विकासः संयोगः वा ज्ञानं गणिताश्रितमेव | परम् एतावतः प्रलापस्य किं प्रयोजनम् ? चराचरे च त्रैलोक्ये यत्किमपि अस्ति तद् गणितेन नाम परिमाणेन गणानां विना वा न स्थातुं शक्यते |

आचार्यः महावीरः वदति, 'यथा समुद्रात् रत्नानि प्राप्यन्ते पाषाणात् सुवर्णं शुक्तिकायाः मुक्ताफलानि च प्राप्यन्ते तथैव जगदीश्वरैः पूज्यानां स्तिथप्रज्ञानां जैनमुनीनां साहाय्येन तेषां शिष्यपरम्परायाः साहाय्येन च अहं सङ्ख्याज्ञानसमुद्रात् किञ्चित् उद्धृत्य साररूपेण स्वमत्यनुसारं गणितसारसङ्ग्रहं नाम्नः लघु-ग्रन्थं रचयामि यस्य अर्थः तु अनल्पः नाम महान् अस्ति' | इति

आश्चर्यकारकं ननु यत् आचार्यः महावीरः गणितस्य दैनन्दिनव्यवहारेषु महत्त्वं कथयति ? (Illustration Required for presenting the data below)

  • लौकिक-व्यवहाराः, वैदिकाः धार्मिकाः च कृतयः |
  • कामशास्त्रम् ।
  • अर्थशास्त्रम् ।
  • सङ्गीतं नाटकं च ।
  • पाककला ।
  • आयुर्वेदः ।
  • स्थापत्यशास्त्रम् ।
  • काव्यशास्त्रम् छन्दःशास्त्रं च ।
  • तर्कविद्या व्याकरणशास्त्रं च ।
  • समयः कालः वा ।
  • ग्रहसञ्चारः अन्तरं च ।
  • समुद्र-पर्वत-द्वीपादीनां संख्या परिमाणं च ।
  • लोकानां परिमाणम् |
  • जनानां परिमाणम् |

दृष्टं खलु ? अस्माकं दैनन्दिन-कार्याणि यथा भोजनम्, प्रवासः, धनम्, गृहवस्तूनां क्रयणम्, भवन-निर्माणम् इत्यादयः व्यवहाराः गणिताश्रिताः | अतः गणिताध्ययनम् अतीव महत्त्वपूर्णम् अस्ति | जानातु यत् भूलोके तस्य परे च यत्किमपि वर्तते तेषु गणितस्य समावेशः भवत्येव |

अध्ययनविषयरूपेण गणितम् |

प्राचीनकालतः गणितीय-अभ्यासस्य विषयाः आसन् - लिपिः लेखा वा (अक्षराणि पठनं लेखनं च), रूपम् (आलेखनं भूमितिश्च) तथा गणना (अङ्कगणितम्) | प्रचीनबौद्धवाङ्मये गणितस्य त्रयः विभागाः वर्णिताः - मुद्रा (अङ्गुलीय-गणना), गणना (बौद्धिक-गणना), सङ्ख्यानम् (विषम-अङ्कगणितम्) |

अनन्तरकाले गणितस्य अर्थे अङ्गुलीय-गणितस्य तथा बौद्धिक-गणितस्य च समावेशः नाभवत् | गणना सुधाखण्डेन फलके भूम्यां सिकतां प्रसार्य वा कर्तुं प्रारम्भः जातः | अतः प्रगत-गणितस्य कृते फलके क्रियते इत्यर्थे पाटीगणितम् तथा च धूलिकर्म इति द्वे नामनी प्रचलिते जाते | फलकं धूलिः इत्यादिना सह सूत्रस्य शङ्कु-यन्त्रस्य (दीपस्य साहाय्येन यस्य छायामापनं भवति) च उपयोगः प्रारब्धः | तेन दैर्घ्यम् अन्तरम् इत्यादीनां गणितीय-सङ्कल्पनानाम् च मापनं  भवति स्म | छायामापनेन कालगणनायाः नाक्षत्रिक-गणनायां अतीव महत्त्वपूर्णं स्थानम् आसीत् |

(Illustrations of Paatiganita and Dhulikarma, Sanku, Drawing circle using a string)

ज्ञानपेटिका |

छायामापनं समतलयुक्तेषु मुक्तक्षेत्रेषु ’शङ्कुः’ इत्यस्य स्थापनेन भवति । छायामापनं लम्बवर्तिनी भवेत् । एतावत् संस्थापितानि यन्त्राणि छायायन्त्रम् नाम्ना प्रसिद्धानि । भारतवर्षे छायामापनस्य कृते निर्मितेषु यन्त्रेषु राजपूतमहाराजेन सवाइ-जय-सिंहेन अष्टादशतमे शतके रचितेषु  ’जन्तर-मन्तर’ इति नाम्ना ख्यातेषु प्राचीनस्थानेषु विद्यमानानि छायायन्त्राणि अतीवप्रसिद्धानि |

रञ्जकानि तथ्यानि |

1.1.1.png
1.1.2.png

आगामिनि पाठेषु एतादृशानां गणितीय-रञ्जक-तथ्यानां विषये अधिकं जानीमः |

वर्गकर्म |

प्रकाशस्य किरणेषु (सूर्यस्य दीपस्य वा) शङ्कुं (दण्डं अङ्कनीं वा) संस्थाप्य छायां निर्मातु | विविधवस्तुभिः (यथा लघु-दण्डः, दीर्घ-दण्डः, अङ्कनी, चित्रवर्तिका, पुस्तकम् इत्यादिभिः वस्तुभिः) निर्मितानां छायानां तुलनां करोतु | वर्गे चर्चां च करोतु |

(Illustration Required) A place holder is given below describing the concept.

L = प्रकाशस्य स्रोतः (सूर्यः दीपः वा)

ST  = दीपस्य पुरतः स्थितस्य शङ्कोः औन्नत्यम् |

CT = निर्मिता छाया |

Illustration should also describe the difference of heights of a sanku and man.

1.1.3.PNG

अन्ये कृतयः |

  1. पञ्च गृहकार्याणि वर्णय यत्र गणितस्य उपयोगः भवति |
  2. अन्विष्यत यत् वेदेषु पुराणेषु च कति लोकानां वर्णनं अस्ति इति |
  3. 'जन्तर-मन्तर' विषये अन्येषां दिगवलोकनप्रासादानां विषये च अधिकं ज्ञानं प्राप्नोतु |
  4. यत्र कुट्टिमे प्रधानकक्षायां भित्तिकासु च प्रतिरूपाणि दृष्यन्ते तस्य ऐतिहासिक-पूजास्थानस्य शासन-भवनस्य दुर्गस्य वा द्वे चित्रे सङ्गृह्णातु |

See Also

Introduction to Mathematics (English)

References

  1. Yajus Jyotisham (Vedanga Jyotisa) by Lagadha (Page 27)
  2. Rangacharya, M. (1912) Ganitasarasangraha of Mahaviracharya with English translation and Notes. Madras: The Government Press (Page 2-3)