Difference between revisions of "Adiparva Adhyaya 12 (आदिपर्वणि अध्यायः १२)"
Jump to navigation
Jump to search
Line 18: | Line 18: | ||
पिता चास्य तदाख्यानं पृष्टः सर्वं न्यवेदयत्॥ 1-12-6 | पिता चास्य तदाख्यानं पृष्टः सर्वं न्यवेदयत्॥ 1-12-6 | ||
इति श्रीमहाभारते आदिपर्वणि पौलोमपर्वणि सर्पसत्रप्रस्तावनायां द्वादशोऽध्यायः॥ 12 ॥ | इति श्रीमहाभारते आदिपर्वणि पौलोमपर्वणि सर्पसत्रप्रस्तावनायां द्वादशोऽध्यायः॥ 12 ॥ | ||
− | [[:Category:रुरु|''रुरु'']] [[:Category:जिज्ञासा|''जिज्ञासा'']] | + | [[:Category:रुरु|''रुरु'']] [[:Category:जिज्ञासा|''जिज्ञासा'']] [[:Category:रुरुकि जिज्ञासा|''रुरुकि जिज्ञासा'']] |
Latest revision as of 19:54, 21 August 2019
रुरुरुवाच कथं हिंसितवान्सर्पान्स राजा जनमेजयः। सर्पा वा हिंसितास्तत्र किमर्थं द्विजसत्तम॥ 1-12-1 किमर्थं मोक्षिताश्चैव पन्नगास्तेन धीमता। आस्तीकेन द्विजश्रेष्ठ श्रोतुमिच्छाम्यशेषतः॥ 1-12-2 ऋषिरुवाच श्रोष्यसि त्वं रुरो सर्वमास्तीकचरितं महत्। ब्राह्मणानां कथयतामित्युक्त्वान्तरधीयत॥ 1-12-3 सौतिरुवाच रुरुश्चापि वनं सर्वं पर्यधावत्समन्ततः। तमृषिं नष्टमन्विच्छन्संश्रान्तो न्यपतद्भुवि॥ 1-12-4 स मोहं परमं गत्वा नष्टसंज्ञ इवाभवत्। तदृषेर्वचनं तथ्यं चिन्तयानः पुनः पुनः॥ 1-12-5 लब्धसंज्ञो रुरुश्चायात्तदाचख्यौ पितुस्तदा। पिता चास्य तदाख्यानं पृष्टः सर्वं न्यवेदयत्॥ 1-12-6 इति श्रीमहाभारते आदिपर्वणि पौलोमपर्वणि सर्पसत्रप्रस्तावनायां द्वादशोऽध्यायः॥ 12 ॥ रुरु जिज्ञासा रुरुकि जिज्ञासा