Changes

Jump to navigation Jump to search
Created page with "रुरुरुवाच कथं हिंसितवान्सर्पान्स राजा जनमेजयः। सर्पा वा हिंसित..."
रुरुरुवाच

कथं हिंसितवान्सर्पान्स राजा जनमेजयः।

सर्पा वा हिंसितास्तत्र किमर्थं द्विजसत्तम॥ 1-12-1

किमर्थं मोक्षिताश्चैव पन्नगास्तेन धीमता।

आस्तीकेन द्विजश्रेष्ठ श्रोतुमिच्छाम्यशेषतः॥ 1-12-2

ऋषिरुवाच

श्रोष्यसि त्वं रुरो सर्वमास्तीकचरितं महत्।

ब्राह्मणानां कथयतामित्युक्त्वान्तरधीयत॥ 1-12-3

सौतिरुवाच

रुरुश्चापि वनं सर्वं पर्यधावत्समन्ततः।

तमृषिं नष्टमन्विच्छन्संश्रान्तो न्यपतद्भुवि॥ 1-12-4

स मोहं परमं गत्वा नष्टसंज्ञ इवाभवत्।

तदृषेर्वचनं तथ्यं चिन्तयानः पुनः पुनः॥ 1-12-5

लब्धसंज्ञो रुरुश्चायात्तदाचख्यौ पितुस्तदा।

पिता चास्य तदाख्यानं पृष्टः सर्वं न्यवेदयत्॥ 1-12-6

इति श्रीमहाभारते आदिपर्वणि पौलोमपर्वणि सर्पसत्रप्रस्तावनायां द्वादशोऽध्यायः॥ 12 ॥

Navigation menu