Adiparva Adhyaya 10 (आदिपर्वणि अध्यायः १०)

From Dharmawiki
Revision as of 20:05, 11 August 2019 by Pṛthvī (talk | contribs) (Created page with "रुरुरुवाच मम प्राणसमा भार्या दष्टासीद्भुजगेन ह। तत्र मे समयो घो...")
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to navigation Jump to search

रुरुरुवाच

मम प्राणसमा भार्या दष्टासीद्भुजगेन ह।

तत्र मे समयो घोर आत्मनोरगा वै कृतः॥ 1-10-1

भुजङ्गं वै सदा हन्यां यं यं पश्येयमित्युत।

ततोऽहं त्वां जिघांसामि जीवितेनाद्य मोक्ष्यसे॥ 1-10-2

डुण्डुभ उवाच

अन्ये ते भुजगा ब्रह्मन्ये दशन्तीह मानवान्।

डुण्डुभानहिगन्धेन न त्वं हिंसितुमर्हसि॥ 1-10-3

एकानर्थान्पृथगर्थानेकदुःखान्पृथक्सुखान्।

डुण्डुभान्धर्मविद्भूत्वा न त्वं हिंसितुमर्हसि॥ 1-10-4

सौतिरुवाच

इति श्रुत्वा वचस्तस्य भुजगस्य रुरुस्तदा।

नावधीद्भयसंविग्नमृषिं मत्वाथ डुण्डुभम्॥ 1-10-5

उवाच चैनं भगवान्रुरुः संशमयन्निव।

कामं मां भुजग ब्रूहि कोऽसीमां विक्रियां गतः॥ 1-10-6

डुण्डुभ उवाच

अहं पुरा रुरो नाम्ना ऋषिरासं सहस्रपात्।

सोऽहं शापेन विप्रस्य भुजगत्वमुपागतः॥ 1-10-7

रुरुरुवाच

किमर्थं सप्तवान्क्रुद्धो द्विजस्त्वां भुजगोत्तम।

कियन्तं चैव कालं ते वपुरेतद्भविष्यति॥ 1-10-8

इति श्रीमहाभारते आदिपर्वणि पौलोमपर्वणि रुरुडुण्डुभसंवादे दशमोऽध्यायः॥ 10 ॥